SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। ९७ विरुद्धता तर्हि तद्वत् कार्यमात्रस्य बुद्धिमत्कारणपूर्वकत्वेन व्याप्तेर्यद्यपि दृष्टान्तेऽनीश्वरोऽसर्वज्ञः कृत्रिमशानसम्बन्धी सशरीरः क्षित्याद्युपविष्टः कर्ता तथापि पूर्वोक्तविशेषणानां धर्मि विशेषरूपाणां व्यमिचारात् तद्विपर्ययसाधकत्वेऽपि न विरुद्धता । विरुद्धो हि हेतुः साध्यविपर्ययकारित्वाद् भवति । न चैतेषां साध्यता, बुद्धिमत्कारणपूर्वकत्वमात्रस्यास्माद्धेतोः साध्यत्वेनेष्टत्वात् । यथा च विशेषविरुद्धादीनामदूषणत्वं तथा ___"सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः" [ न्यायद० अ० १, आ० २, सू० ६ ] इत्यत्र सूत्रे निर्णीतम् । इतश्चैतददूषणम्-पूर्वस्माद्धेतोः स्वसाध्यसिद्धावुत्तरेण पूर्व सिद्धस्यैव साध्यस्य किं विशेषः साध्यते, उत पूर्वहेतोः स्वसाध्यसिद्धिप्रतिबन्धः क्रियते? न तावत् पूर्वो विकल्पः, यदि नाम तत्रापरेण हेतुना विशेषाधानं कृतं किं तावता पूर्वस्य हेतोः साध्यसिद्धिविघातः ? यथा कृतकत्वेन १० शब्दस्यानित्यत्वसिद्धौ हेत्वन्तरेण गुणत्वसिद्धावपि न पूर्वस्य क्षतिस्तद्वदत्रापि । अथोत्तरो विकल्पस्तथापि स्वसाध्यसिद्धिप्रतिबन्धो व्याप्त्यभावप्रदर्शनेन क्रियते; व्याप्त्यभावश्च हेतुरूपाणामन्यतमाभावेन । न च धर्मिविशेषविपर्ययोद्भावनेन कस्यचिदपि रूपस्याभावः कथ्यते । न च हेतुरूपाभावासिद्धावगमकत्वम् । तन्न विशेषविरुद्धता। विशेषास्तु धर्मिणः स्वरूपसिद्धावुत्तरकालं प्रमाणान्तरप्रतिपाद्या न तु पूर्वहेतुबलादभ्यु-१५ पगम्यन्ते । तच्च प्रमाणान्तरमागमः पूर्वहेताहेत्वन्तरं च। "तच्चान्वयव्यतिरेकिपूर्वककेवलव्यतिरे. किसंज्ञम् । यथा गन्धाधुपलब्ध्या तत्साधनकरणमात्रप्रसिद्धौ प्रसक्तप्रतिषेधे करणविशेषसिद्धिः केवलव्यतिरेकिनिमित्ता तथेहापि कार्यत्वात् बुद्धिमत्कारणमात्रप्रसिद्धौ प्रसक्तप्रतिषेधात् कारणविशेषसिद्धिः केवलव्यतिरेकिनिमित्ता । तथाहि-कार्यत्वाद् बुद्धिमत्कारणमात्रसिद्धी प्रसक्तानां कृत्रिमशान-शरीरसंबद्धत्वादीनां धर्माणां प्रमाणान्तरेण बाधोपपत्तौ विशिष्टबुद्धिमत्कारणसिद्धिय॑-२० तिरेकिबलात्” इति केचित् । अन्ये मन्यन्ते-“यत्रान्वयव्यतिरेकिणो हेतोर्न विशेषसिद्धिस्तत्र तत्पूर्वकात् केवलव्यतिरेकिणो विशेषसिद्धिर्भवतु, यथा घ्राणादिषु, अत्र तु पूर्वस्माद्धेतोर्विशेषसिद्धौ न हेत्वन्तरपरिकल्पना । यथा धूमस्य वह्निनाऽन्वय-व्यतिरेकसिद्धौ ‘अत्र देशे वह्निः' इति पक्षधर्मत्वबलात् प्रतिपत्तिर्नान्वयाद् व्यतिरेकाद्वा, तयोर्खेतद्देशावच्छिन्नेन वह्निनाऽसंभवातू-यद्यपि व्याप्तिकाले सकलाक्षेपेण तद्देशस्या-२५ प्याक्षेपः अन्यथाऽत्र व्याप्तेरसंभवात्, तथापि व्याप्तिग्रहणवेलायां सामान्यरूपतया तदाक्षेपः न विशेषरूपेणेति विशेषावगमो नान्वय-व्यतिरेकनिमित्तः, अपि तु पक्षधर्मत्वकृतः। अत एव "प्रत्युत्पन्नकारणजन्यां स्मृतिमनुमानम्" आहुः । प्रत्युत्पन्नं च कारणं पक्षधर्मत्वमेव तथा कार्यत्वादे बुद्धिमत्कारणमात्रेण व्याप्तिसिद्धावपि कारणविशेषप्रतिपत्तिः पक्षधर्मत्वसामर्थ्यात् । य इत्थंभूतस्य पृथिव्यादेः कर्ता नियमेनासावकृत्रिमज्ञानसंबन्धी शरीररहितः सर्वज्ञ एकः" इति, एवं यदा ३० पक्षधर्मत्वबलाद् विशेषसिद्धिस्तदा न विशेषविरुद्धादीनामवकाशः। ___ "अन्वयसामर्थादपि विशेषसिद्धिम्" अन्ये मन्यन्ते । तथा, धूममात्रस्य वह्निमात्रेण व्याप्तिः एवं धूमविशेषस्य वह्निविशेषेण इति धूमविशेषप्रतिपत्तौ न वह्निमात्रेणान्वयानुस्मृतिः किन्तु वह्निविशेषेण, एवं विशिष्टकार्यत्वदर्शनान्न कारणमात्रानुस्मृतिः किन्तु तथाविधकार्यविशेषजनककारणविशेषानुस्मृतिः। तदनुस्मृतावत्रान्वयसामर्थ्यादेव कारणविशेषप्रतिपत्तिरिति न विशेषविरुद्धावकाशः।३५ एतेषां पैक्षाणां युक्तायुक्तत्वं सूरयो विचारयिष्यन्तीति नास्माकमत्र निर्बन्धः; सर्वथा विशेषविरुद्धस्यादृषणत्वमस्माभिः प्रतिपाद्यते तद्विरुद्धलक्षणपर्यालोचनया। प्रसक्तानां च विशेषाणां प्रमाणान्तरबाधया, अन्वयव्यतिरेकिमूलकेवलव्यतिरेकिबलाद्वा, पक्षधर्मत्वसामर्थेन वा, कार्यविशेषस्य कारणविशेषान्वितत्वेन वा नात्र प्रयत्यते; सर्वथा प्रस्तुतहेतौ न व्याप्त्यसिद्धिः। १-त्तात् । मां०। २ यथा मां० ब०। ३ “त्रयाणां पूर्वोक्तानाम्" वि. टि.। ४-नां विशे-भा०, गु०, वा०,या। स० त०१३
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy