SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ९६ प्रथमे काण्डे - कारणेषु कारणत्वमप्रत्यक्षम् कार्येणैव तस्योपलम्भात् । सहकारिसत्ता दृश्यमानस्य कारणता, केषाञ्चित् सहकारिणां दृश्यत्वेऽप्यदृष्टादेः सहकारिणः कार्येणैव प्रतिपत्तिः: एवमीश्वरस्य कारणत्वेऽपि न तत्स्वरूपग्रहणं प्रत्यक्षेणेति स्थितम् । ततोऽनुपलब्धिलक्षणप्राप्तत्वात् कर्त्तुरुपलभ्यमान. जन्मसु स्थावरेषु हेतोर्वृत्तिदर्शनान्न व्यात्यभावः यतो निश्चितविपक्षवृत्तिर्हेतुर्व्यभिचारी । ५ ननु निश्चित विपक्षवृत्तिर्यथा व्यभिचारी तथा सन्दिग्धव्यतिरेकोऽपि, उक्तेषु स्थावरेषु कर्त्रग्रहणं किं कर्त्रभावात्, आहोस्विद् विद्यमानत्वेऽपि तस्याग्रहणमनुपलब्धिलक्षणप्राप्तत्वेन ? एवं सन्दिग्धव्यतिरेकत्वे न कश्चिद्धेतुर्गमकः । धूमादेरपि सकलव्यत्याक्षेपेण व्यायुपलम्भकाले न सर्वा वह्निव्यक्तयो दृश्याः; तासु चाऽदृश्यासु धूमव्यक्तीनां दृश्यत्वे सन्दिग्धव्यतिरेकाशङ्का न निवर्त्ततेयत्र वरदर्शने धूमदर्शनं तत्र किं वह्नेरदर्शनमभावात्, आहोस्विद् अनुपलब्धिलक्षणप्राप्तत्वात् १० इति न निश्चयः । अतो धूमोऽपि सन्दिग्धव्यतिरेकत्वान्न गमकः । अथ धूमः कार्य हुतभुजः, तस्य तदभावे स्वरूपानुपपत्तेरदृष्टत्वेऽप्यनलस्य सद्भावकल्पना; ननु तत् कार्यमत्रोपलभ्यमानं किमिति कारणमन्तरेण कल्प्यते ? अथ दृष्टशक्तेः कारणस्य कल्पनाऽस्तु मा भूद् बुद्धिमतः, वयादेर्धूमादीन् प्रति कथं दृशक्तिता ? प्रत्यक्षानुपलम्भाभ्यामिति चेत्, बुद्धिमतोऽपि ताभ्यां कारणत्वतौ वह्न्यादिभिस्तुल्यता; यथा वह्नयादिसामग्र्या धूमादिर्जन्यमानो दृष्टः स तामन्त१५रेण कदाचिदपि न भवति स्वरूपहानिप्रसङ्गात् तद्वत् सर्वमुत्पत्तिमत् कर्तृ-कर्म-करणपूर्वकं दृष्टम्, तस्य सकृदपि तथादर्शनात् तज्जन्यतास्वभावः, तस्यैवं स्वभाव निश्चितावन्यतमाभावेऽपि कथं भावः ? किंच, अनुपलभ्यमानकर्तृकेषु स्थावरेषु कर्त्तुरनुपलम्भः शरीराद्यभावात् नत्वसत्त्वात्, यत्र शरीरस्य कर्तृता तत्र कुलालादेः प्रत्यक्षेणैवोपलम्भ:, अत्र तु चैतन्यमात्रेणोपादानाद्यधिष्ठानात् कथं प्रत्यक्षव्यापृतिः ? नाप्येतद् वक्तव्यम् शरीराद्यभावात् तर्हि कर्तृताऽपि न युक्ता, कार्यस्य शरीरेण २० सह व्यभिचारदर्शनात् - यथा स्वशरीरस्य प्रवृत्ति-निवृत्ती सर्वश्चेतनः करोति, ते च कार्यभूते; न च शरीरान्तरेण शरीरप्रवृत्ति - निवृत्तिलक्षणं कार्य चेतनः करोति तेन तस्य व्यभिचारः । अथ शरीरे एव दृष्टत्वात् करोतु नान्यत्र, तन्नः यतः कार्ये शरीरेण विना करोतीति नः साध्यम्; तत् स्व शरीरगतमन्यशरीरगतं वेति नानेन किञ्चित् । एतेनैतदपि पराकृतं यदाहुरेके “अचेतनः कथं भावस्तदिच्छामनुवर्त्तते" [ ] २५ अचेतनस्य शरीरादेरात्मेच्छानुवर्त्तित्वदर्शनात् । न चाचेतनस्य तदिच्छाननुवर्त्तिनोऽपि प्रयत्नप्रेर्यत्वं परिहार इति वक्तव्यम्, यत ईश्वरस्यापि प्रयत्नसद्भावे न काचित् क्षतिः । न च शरीराभावात् कथं प्रयत्न इति वक्तुं युक्तम्, शरीरान्तराऽभावेऽपि शरीरस्य प्रयत्नप्रेर्यत्वदर्शनात् । तत् कर्त्तुः शरीरा भावादकृष्टोत्पत्तिषु स्थावरेष्वग्रहणम्, न तत्रादर्शनेन हेतोर्व्यभिचारः । येऽपि "प्रत्यक्षाऽनुपलम्भसाधनं कार्यकारणभावम्” आहुस्तेषामपि कस्यचित् कार्यकारणभावस्य तत्साधनत्वे यथेन्द्रि ३० याणाम् अदृष्टस्य च तौ विना कारणत्वंसिद्धिस्तथेश्वरस्यापि । अतो न व्यास्यभावः । अत एव न संत्प्रतिपक्षताऽपि, नैकस्मिन् साध्यान्विते हेतौ स्थिते द्वितीयस्य तथाविधस्य तत्रावकाशः; वस्तुनो द्वैरूप्यासंभवात् । नापि बाधः, अबुद्धिमत्कारणपूर्वकत्वस्य प्रमाणेनाग्रहणात्; साध्याभावे हेतोरभावः स्वसाध्यव्याप्तत्वादेव सिद्धः । नापि धर्म्यसिद्धता, कार्यकारणसङ्घातस्य पृथिव्यादेर्भूतग्रामस्य च प्रमाणेन सिद्धत्वात् । तदाश्रयत्वेन हेतोर्यथा प्रमाणेनोपलम्भस्तथा पूर्व प्रदर्शितम् । अतोऽस्मादीश्वरावगमे न तत्सिद्धौ प्रमाणाभावः । नापि हेतोर्विशेषविरुद्धता, तद्विरुद्धत्वे हेतोर्विशेषणेऽभ्युपगम्यमाने न कश्चिद्धेतुरविरुद्धो भवेत्, प्रसिद्धानुमानेऽपि विशेषविरुद्धादीनां सुलभत्वात् । यथाऽयं धूमो दहनं साधयति तथैत४० देशावच्छिन्न वह्नघभावमपि साधयति । नहि पूर्वधूमस्यैतदेशावच्छिन्नेन वह्निना व्याप्तिः । एवं कालाद्यवच्छेदेन हेतोर्विरुद्धता वक्तव्या । अथ देश-कालादीन् विहाय वह्निमात्रेण हेतोर्व्याप्तेर्न १ सप्रति - मां०, बा० वा० । २ पृ० ९४ पं० १५। ३५
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy