SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ९५ ईश्वरस्वरूपवादः। वैदिक्यपि कर्तृपूर्विका तर्हि प्रासादादिसंस्थानवत् पृथिव्यादिसंस्थानवत्त्वस्यापि तद्पताऽस्तु, विशेषानुपलक्षणात् । तन्न हेतोरसिद्धता। {मा भूदसिद्धत्वं तथाऽप्यस्मात् साध्यसिद्धिन युक्ता, नहि केवलान् पक्षधर्मत्वाद् व्याप्तिशू न्यात् साध्यावगमः । ननु किं घटादौ कर्तृ-कर्म-करणपूर्वकत्वेन कार्यत्वादेात्यनवगमः ? अस्त्येवं' घटगते कार्यत्वे प्रतिपत्तिस्तथापि न व्याप्तिः, सा हि सकलाक्षेपेण गृह्यते, अत्र तु व्याप्तिग्रहणकाल ५ एव केषाश्चित् कार्याणामकर्तृपूर्वकाणां कार्यत्वदर्शनान्न सर्व कार्य कर्तृपूर्वकम् , यथा वनेषु घनस्पतीनाम् । अथ तत्र न कञभावनिश्चयः किंतु कत्रग्रहणम् , तच्च विद्यमानेऽपि कर्तरि भवतीति कथं साध्याभावे हेतोर्दर्शनम् ? क्व पुनर्विद्यमानकर्तृकाणां तदप्रतिपत्तिः ? यथा घटादीनामनवगतोत्पत्तीनाम् । युक्ता तत्र कर्तुरप्रतिपत्तिः, उत्पादकालानवगमात् । तत्काले च तस्य तत्र सन्निधानम्, अन्यदाऽस्य सन्निधानाभावादग्रहणम्। वनगतेषु च स्थावरेषूपलभ्यमानजन्मसु कर्तृसद्भावे तदव-१० गमोऽवश्यंभावी, यथोपलभ्यमानजन्मनि घटादौ; अत उपलब्धिलक्षणप्रापस्य कर्तुस्तेष्वभावनि. श्वयात् तत्र व्याप्तिग्रहणकाल एव कार्यत्वादेर्हतोदर्शनान्न कर्तृपूर्वकत्वेन व्याप्तिः । इतश्च दृष्टहान्यदृष्टपरिकल्पनासम्भवात्-दृष्टानां क्षित्यादीनां कारणत्वत्यागः अदृस्य च कर्तुः कारणत्वकल्पना न युक्तिमती । अथ न क्षित्यादेः कारणत्वनिराकरणं कर्तृकल्पनायामपि, तत्सद्भा. वेऽपि तस्यापरकारणत्वक्लप्तेः, तदसत्; यतो यद् यस्यान्वय-व्यतिरेकानु विधायि तत् तस्य कारणम् १५ इतरत् कार्यम्: क्षित्यादीनां त्वन्वय-व्यतिरेकावनुविधत्ते तत्राकृष्टजातं वनस्पत्यादि नापरस्य, कथमतो व्यतिरिक्तं कारणं भवेत् ? एवमपि कारणत्वकल्पनायां दोष उक्तः "चैत्रस्य व्रणरोहणे" [ ] इत्यादिना । तस्मात् पक्षधर्मत्वेऽपि व्याश्यभावादगमकत्वं हेतोः। ___ अथ तेषां पक्षेऽन्तर्भावान्न तैर्व्यभिचारः, तदसत्; तात्त्विकं विपक्षत्वं कथमिच्छाकल्पितेन पक्षत्वेनापोघेत? व्याप्तौ सिद्धायां साध्य-तदभावयोरग्रहणे वादीच्छापरिकल्पितं पक्षत्वं कथ्यते ।२० सपक्ष-विपक्षयोर्हेतोः सदसत्त्वनिश्चयाद् व्याप्तिसिद्धिः। एवमपि साध्याभावे दृष्टस्य हेतोयाप्तिग्रहणकाले व्यभिचाराशङ्कायां निश्चये वा व्यभिचारविषयस्य पक्षेऽन्तर्भावेन गमकत्वकल्पने न कश्चिद्धेतुर्व्यभिचारी भवेत् । तस्मान्नेश्वरसिद्धौ कश्चिद् हेतुरव्यभिचार्यस्ति }। अत्राहुः-नाकृष्टजातैः स्थावरादिमिळमिचारः व्याल्यभावो वा, साध्याभावे वर्तमानो हेतुर्व्यभिचारी उच्यते, तेषु तु कत्रग्रहणम् न सकर्तृकत्वाभावनिश्चयः। ननूक्तम् 'उपलब्धिलक्षण २५ प्राप्तत्वे कर्तुरभावनिश्चयस्तत्र युक्तः' नैतद् युक्तम्; उपलब्धिलक्षणप्राप्ततायाः कर्तुस्तेष्वनभ्युपगमात् । यत्तूक्तम् 'क्षित्याद्यन्वय-व्यतिरेकानुविधानदर्शनात् तेषाम् तद्यतिरिक्तस्य कारणत्वकल्पनेऽतिप्रसङ्गदोषः' इति, एतस्यां कल्पनायां धर्माधर्मयोरपि न कारणता भवेत् । न च तयोरकारणतैव, तयोः कारणत्वप्रसाधनात्-नहि किञ्चिजगत्यस्ति यत् कस्यचिन्न सुखसाधनम् दुःखसाधनं वा। न च तत्साधनस्यादृष्टनिरपेक्षस्योत्पत्तिः । इयांस्तु विशेषः-शरीरादेः प्रतिनियताऽदृष्टाक्षिप्तत्वं ३० प्रायेण, सर्वोपभोग्यानां तु साधारणाऽदृष्टाक्षिप्तत्वम् । एतत् सर्ववादिभिरभ्युपगमादप्रत्याख्येयम्। युक्तिश्च प्रदर्शितैव । चार्वाकैरप्येतदभ्युपगन्तव्यम्, तान् प्रति पूर्वमेतत्सिद्धौ प्रमाणस्योक्तत्वात् । प्रमाणसिद्धं तु न कस्यचिन्न सिद्धम् । अथादृष्टस्य कार्येणान्वय-व्यतिरेकाननुविधानेऽपि नाकारणता, न तर्हि वक्तव्यं भूम्यादिव्यतिरेकेण स्थावरादिना कार्येणेश्वरस्यान्वय-व्यतिरेकाननुविधानादकारणत्वम् । अथ जगद्वैचित्र्यमदृष्टस्य कारणत्वं विना नोपपद्यते इति तत् कल्प्यते, सर्वान् ३५ उत्पत्तिमतः प्रति भूम्यादेः साधारणत्वादतोऽदृष्टाख्यविचित्रकारणकृतं कार्यवैचित्र्यम्; एवमएस्य कारणत्वकल्पनायामीश्वरस्यापि कारणत्वप्रतिक्षेपो न युक्तः यथा कारणगतं वैचित्र्यं विना कार्यगतं वैचित्र्यं नोपपद्यते इति तत् परिकल्प्यते तथा चेतनं कर्तारं विना कार्यस्वरूपानुपात्तिरिति किमिति तस्य नाभ्युपगमः? न चाकृष्टजातेषु स्थावरादिषु तस्याग्रहणेन प्रतिक्षेपः, अनुपलब्धिलक्षणप्राप्तत्वाददृष्टवत् । न च सर्वा कारणसामन्युपलब्धिलक्षणप्राप्ता। अत एव दृश्यमानेष्वपि४० १-व घट-भां०, वा०, बा०, मां विना। २-त्वेऽपि प्र-भां०, गु०, मां०। ३-यात् दृ-वा०, वा० । ४-कृतेः भा०, कां०, गु०। ५-“वनवनस्पत्यादीनाम्" वि.टि.। ६-क्षयोश्च हे-भा०, मा०। ७ प्र० पृ. पं० ११। ८प्र० पृ. पं० १६। ९० ९३ १०२।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy