SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ९४ प्रथम काण्डेविशिष्टसंस्थानयुक्तानां कथमकार्यता? सर्व संस्थानवत् , कार्यम् , तञ्च पुरुषपूर्वकं दृष्टम् । येऽप्याहुः"संस्थानशब्दवाच्यत्वं केवलं घटादिभिः समानं पृथिव्यादीनाम् न तत्त्वतोऽर्थः कश्चिद् द्वयोरनुगतः समानो विद्यते" । तेषामपि न केवलमत्रानुगतार्थाभावः किन्तु धूमादावपि पूर्वापरब्यक्तिगतो नैव कश्चिदनुगतोऽर्थः समानोऽस्ति। ५ अथ तत्र वस्तुदर्शनायातकल्पनानिमित्तमुक्तम् , अत्र तथाभूतस्य प्रतिभासस्याभावान्नानुगतार्थकल्पना । तथाहि-कस्यचिद् घटादेः क्रियमाणस्य विशिष्टां रचनां कर्तृपूर्विकां दृष्ट्वाऽदृष्टकर्तृकस्यापि घट-प्रासादादेस्तस्य रचनाविशेषस्य कर्तृपूर्वकत्वप्रतिपत्तिः, पृथिव्यादेस्तु संस्थानं कदाचिदपि कर्तृपूर्वकं नावगतम्: नापि तादृशं धर्म्यन्तरे दृष्टकर्तृक इव पटादौ; तत् पृथिव्यादिगतस्य संस्थानस्य वैलक्षण्यात् ततो न ततः कर्तृपूर्वकन्वप्रतिपत्तिः; एवं हेतोरसिद्धत्वेन नैतत् साधनम् , अयुक्तमेतत्; १० यतो यद्यनवगतसंबन्धान प्रतिपत्तन अधिकृत्य हेतोरसिद्धत्वमुच्यते तदा धूमादिष्वपि तुल्यम् । अथ गृहीताविनाभावानामपि कार्यत्वदर्शनात् तन्वादिषु ईश्वरादिकृतत्वप्रतिभासानुत्पत्तेरेवमुच्यते, तदसत्; ये हि कार्यत्वादेवुद्धिमत्कारणपूर्वकत्वेन गृहीताविनाभावास्ते तस्मादीश्वरादिपूर्वकत्वं तेषामवगच्छन्त्येव । तस्माद् व्युत्पन्नानामस्त्येव पृथिव्यादिसंस्थानवत्त्व-कार्यत्वादेर्हेतोर्धर्मिधर्मताऽवगमः, अव्युत्पन्नानां तु प्रसिद्धानुमाने धूमादावपि नास्ति । १५ अपि च, भवतु प्रासादादिसंस्थानेभ्यः पृथिव्यादिसंस्थानस्य वैलक्षण्यं तथापि कार्यत्वं शाक्यादिमिः पृथिव्यादीनामिष्यते, कार्य च कर्तृ-करणादिपूर्वकं दृष्टम् ; अतः कार्यत्वाद् बुद्धिमकारणपूर्वकत्वानुमानम् । अथ कर्तृपूर्वकस्य कार्यत्वस्य संस्थानवत्त्वस्य च तद्वैलक्षण्यान्न ततः साध्यावगमः । अत एवाधिष्ठातृभावाभावानुवृत्तिमद् यत् संस्थानं तद्दर्शनात् कर्जदार्शनोऽपि तत्प्रतिपत्तिर्युक्तेत्यस्य दूषणस्य कार्यत्वेऽपि समानत्वात् कथं गमकता? यद्येवमनुमानोच्छेदप्रसङ्गः २०धूमादिकमपि यथाविधमन्यादिसामग्रीभावाभावानुवृत्तिमत् तथाविधमेव यदि पर्वतोपरि भवेत् स्यात् ततो वह्नयाद्यवगमः । अथाधूमव्यावृत्तं तथा विधमेव धूमादि तर्हि कार्यत्वाद्यपि तथाविधं पृथिव्यादिगतं किं नेष्यते? अथ पृथिव्यादिगतकार्यत्वादिदर्शनात् कर्बदर्शिनां तदप्रतिपत्तिः, एवं शिखर्यादिगतवह्नयाद्यदर्शिनां धूमादिभ्योऽपि तदप्रतिपत्तिरस्तु । न चात्र शब्दसामान्यं वस्त्व नुगमो नास्तीति वक्तुं युक्तम्, धूमादावपि शब्दसामान्यस्य वक्तुं शक्यत्वात् । तन्न शाक्यदृष्टया २५ कार्यत्वादेरसिद्धता । नापि चार्वाक-मीमांसकदृष्टया, तेषामपि संस्थानवदवश्यं कार्य घटादिवत् पृथिव्यादि स्वावयवसंयोगैरारब्धमवश्यंतया विश्लेषाद् विनाशमनुभविष्यति; एवं विनाशाद् वा संभावितात् कार्यत्वानुमानम् रचनास्वभावत्वाद् वा । यथोक्तं भाष्यकृता "येषामप्यनवगतोत्पत्तीनां भावानां रूपमुपलभ्यते तेषां तन्तुव्यतिषङ्गजनितं रूपं दृष्वा तद्यति३० षङ्गविमोचनात् तद्विनाशाद् वा विनझ्यतीत्यनुमीयते" [ ] अनेन संस्थानवतोऽनुपलभ्यमानोत्पत्तेः समवाय्यसमवायिकारणविनाशाट विनाशमाह। तथा. पृथिव्यादेः संस्थानवतोऽदृष्टजन्मनो रूपदर्शनाद् नाशसम्भावना भविष्यति; सम्भाविताच नाशात् कार्यत्वानुमितौ कर्तृप्रतिपत्तिः । यथोक्तं न्यायविद्भिः तत्त्वदर्शनं प्रत्यक्षतोऽनुमानतो वा" [ ] ३५कार्यत्व-विनाशित्वयोश्च समव्याप्तिकत्वादेकेनापरस्यानुमानमिष्टम् “तेन यत्राप्युभौ धौं” [ श्लोक वा० अनु० श्लो०९] इत्यत्र । अतो जैमिनीयानां न कार्यत्वादेरसिद्धता।। नापि चार्वाकमतेऽसिद्धत्वम् । तेषां रचनावत्त्वेनावश्यंभाविनी कार्यताप्रतिपत्तिरदृष्टोत्पत्ती. नामपि शित्यादीनाम्, अन्यथा वेदरचनाया अपि कर्तृदर्शनाभावान कार्यता, यतस्तत्राप्येतावच्छक्यं वक्तुम्-न रचनात्वेन वेदरचनायाः कार्यत्वानुमानम्, कर्तृभावाऽभावानुविधायिनी ४० तदर्शनाल्लौकिक्येव रचना तत्पूर्विकाऽस्तु मा भूद् वैदिकी । अथ तयोर्विशेषानुपलम्भाल्लौकिकीव १-त्रावस्तु-हा०। २-यातत्कल्प-वा०, बा०, मां०, भां०। ३ इति प-वि० । ४ घटा-मां०। ५-त् यतो वि०। ६-नश्य-कां०। ७-क्षतो वाऽनु-वा०, बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy