SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ९३ ईश्वरस्वरूपवादः। किमित्यागमस्य प्रवृत्तिर्नाभ्युपगमस्य विषयः ? न चागमस्य तत्राप्रामाण्यमिति वक्तुं युक्तम् , सर्वशप्रणीतत्वेन तत्प्रामाण्यस्य व्यवस्थापितत्वात् । प्रतिनियतकर्मफलसंबन्धप्रतिपादकश्चागमः ___"बह्वारम्भपरिग्रहत्वं च नारकस्य” [ तत्त्वा० अ० ६, सू० १६ ] इत्यादिना वाचकमुख्येन सूत्रीकृतोऽस्यैवानुमानविषयत्वं प्रतिपादयितुकामेन । यथा च कर्मफलसंबन्धोऽप्यात्मनोऽनुमानादवसीयते तथा यथास्थानमिहैव प्रतिपादयिष्यामः । आत्मस्वरूपप्रति- ५ पादकः प्रतिनियतकर्मफलसंबन्धप्रतिपादकश्चागमः “एगे आया" [ स्थाना० प्रथमस्था० सू०१] "पुन्विं दुश्चिण्णाणं दुप्पडिकंताणं कडाणं कम्माणं" [ इत्यादिकः सुप्रसिद्ध एव । तदेवं प्रत्यक्षाऽनुमानाऽऽगमप्रमाणप्रसिद्धत्वाद् नारक-तिर्यग-नराऽमरपर्यायानुभूतिस्वभावस्यात्मनः, न 'भवशब्दव्युत्पत्तिः अर्थाभावात् डित्थादिशब्दव्युत्पत्तितुल्या' १० इति स्थितम् ॥ [ पूर्वपक्षः-जगतः ईश्वरकृतत्वस्थापनम् ] अत्राहुर्नैयायिकाः-क्लेश-कर्म-विपाकाऽऽशयाऽपरामृष्टपुरुषाभ्युपगमे "नित्यं सत्त्वमसत्त्वं वा" इति दूषणमभ्यधायि तत्र तन्नित्यसत्त्वप्रतिपादने नास्माकं काचित् क्षतिः, प्रमाणतो नित्यज्ञानादिधर्मकलापान्वितस्य तस्याभ्युपगमात् । ननु युक्तमेतद् यदि तथाभूतपुरुषसद्भावप्रतिपादकं किञ्चित् प्रमाणं स्यात्, तच्च नास्ति । तथाहि-न प्रत्यक्षं तथाविधपुरुषसद्भावावेदकमस्मदादीनाम् । अस्मद्विलक्षणयोगिभिस्तस्यावसाय इत्यत्रापि न किञ्चित् प्रमाणमस्ति । यदा न तत्स्वरूपग्रहणे प्रत्यक्षप्रमाणप्रवृत्तिस्तदा तद्गतधर्माणां नित्यज्ञानादीनां सद्भाववात्तैव न संभवति। _____नानुमानमपि युक्तम् एतत्स्वरूपावेदकम् , प्रत्यक्षनिषेधे तत्पूर्वकस्य तस्यापि निषेधात् । सामा-२० न्यतोदृष्टस्यापि नात्र विषये प्रवृत्तिः, लिङ्गस्य कस्यचित् तत्प्रतिपादकस्याभावात्। कार्यत्वस्य पृथिव्याद्याश्रितस्य केषाश्चिन्मतेनासिद्धेः। न च संस्थानवत्त्वस्य तत्साधकत्वम्, प्रासादादिसंस्थानेभ्यः पृथिव्यादिसंस्थानस्यात्यन्तवैलक्षण्यात् संस्थानशब्दवाच्यत्वेन चातिप्रसक्तिर्दर्शिता “वस्तुभेदप्रसिद्धस्य शब्दसाम्यादभेदिनः” [ ] इत्यादिना । तस्मान्नानुमानं तत्साधनायालम् । नाप्यागमः, नित्यस्यात्र दर्शनेऽनभ्युपगमात् ; अभ्युपगमे वा कार्यार्थप्रतिपादकस्य सिद्धे वस्तुन्यव्यापृतेः। नापीश्वरपूर्वकस्य प्रामाण्यम्, इतरेतराश्रयदोषप्रसङ्गात् । अनीश्वरपूर्वकस्यापि संभाव्यमानदोषत्वेन प्रमाणताऽनुपपत्तेः। तस्यान्येश्वरपूर्वकत्वे तस्यापि सिद्धिः कुत इति वक्तव्यम्, तदसिद्धौ न तस्य प्रामाण्यम्, अनेकेश्वरप्रसङ्गदोषश्च । भवतु, को दोषः यत एकस्यापि साधने वयमतीवोत्सुकाः किं पुनर्बहूनामिति चेत्, न कश्चित् प्रमाणाभावं मुक्त्वा । तन्नागमतोऽपि तत्प्रतिपत्तिः।३० एवं स्वरूपासिद्धौ कथं तस्य कारणता? ____ अत्राहुः-यदुक्तम् 'न तत्र प्रत्यक्षं प्रमाणम्' तदेवमेव । यदपि 'सर्वप्रकारस्यागमस्य न तत्स्वरूपावेदने व्यापृतिः' तत्रोच्यते-आगमाव्यापारेऽपि तत्स्वरूपसाधकमनुमानं विद्यते । आगमस्यापि सिद्धेऽर्थे लिङ्गदर्शनन्यायेन यथा व्यापृतिस्तथा प्रतिपादयिष्यामः। प्रत्यक्षपूर्वकानुमाननिषेधे सिद्धसाधनम्, सामान्यतोदृष्टानुमानस्य तत्र व्यापाराभ्युपगमात् । नन्वनुमानप्रमाणतायामयं विचारो ३५ युक्तारम्भः, तस्यैव तु प्रामाण्यं नानुमन्यन्ते चार्वाका इति, एतच्चानुद्धोग्यम्; अनुमानप्रामाण्यस्य व्यवस्थापितत्वात्। ___ यत्तूक्तम् 'पृथिव्यादिगतस्य कार्यत्वस्याप्रतिपत्तेन तस्मादीश्वरावगमः' तत्र पृथिव्यादीनां बौद्धैः कार्यत्वमभ्युपगतं ते कथमेवं वदेयुः ? येऽपि चार्वाकाद्याः पृथिव्यादीनां कार्यत्वं नेच्छन्ति तेषामपि १ पृ० ६९५०९। २ प्रतिग्रहत्वं नार-मां०। ३ "पुरा पोराणाणं दुचिण्णाणं दुप्पडिकंताणं कडाणं पावाणं कम्माणं" इत्यादि-ज्ञाताधर्मकथासूत्रे पृ. २०४ प्र०, पं० १-विपाकसूत्रे पृ० ३८ द्वि०, पं०१। ४ पृ. ६९ पं० २७ । ५-द्भावे वा-मां०, बा०, बा०। ६ प्र. पृ० पं० १७॥ ७ प्र० पृ० पं० २६ । ८ प्र. पृ० पं० २१ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy