SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ च प्रथमे काण्डेनिजजन्मान्तरशरीरप्रभवश्चपलतादिभेदः परभवभाविजन्मशरीरसंचारी भविष्यतीति ततो न माता. पिताक्र-शोणितान्वयि जन्मादिशरीरम अपि त स्वसन्तानशरीरान्वयमेव, वृद्धादिशरीरवतः अन्यथा मातापितृशरीरचपलतादिविलक्षणशरीरचेष्टावन्न स्यात् । अथेहजन्मबाल-कुमाराद्यवस्थाभेदेऽपि प्रत्यभिज्ञानाद् एकत्वं सिद्धं शरीरस्य तदवस्थाव्यापकस्य तेन न तदृष्टान्तबलादत्यन्तभिन्ने जन्मान्तर५शरीरादौ ज्ञानसंचारो यक्तः, तदसतः पूर्वोत्तरजन्मशरीरज्ञानसंचारकारिणः कार्मणशरीरस्यात एव कथञ्चिदेकत्वसिद्धेः। तथाहि-ज्ञानं तावदिहजन्मादावन्यनिजजन्मज्ञानप्रभवं प्रसाधितम् , तस्य चेहजन्मबाल-कुमाराद्यवस्थाभेदेषु तदेवेदं शरीरम्' इत्यबोधितप्रत्यभिज्ञाप्रत्ययावगतैकरूपान्वयिषु संचारदर्शनात् पूर्वोत्तरजन्मावस्थास्वपि तथाभूतानुगामिरूपसमन्वितासु तस्य संचारोऽनुमीयते । न दादीन्द्रियसंवेद्यरूपाद्याश्रयस्यौदारिकशरीरस्य जन्मान्तरशरीराद्यवस्थाऽनुगमः संभवति, तस्य १० तदैव च दाहादिना ध्वंसोपलब्धेः । अतो जन्मद्वयावस्थाव्यापकस्योष्मादिधर्मानुगतस्य कार्मणशरीरस्य विज्ञानसंचारकारिणः सद्भावः सिद्धः । पूर्वोत्तरजन्मावस्थाव्यापकस्यावस्थातुस्तदवस्थाभ्यः कथञ्चिदभेदाद् मातापितृशरीरविलक्षणनिजशरीरावस्थाचपलताद्यनुविधाने उत्तरावस्थायाः कथं नावस्थातृधर्मानुविधानम् ? "तस्माद् यस्यैव संस्कारं नियमेनानुवर्त्तते । शरीरं पूर्वदेहस्य तत् तदन्वयि युक्तिमत्” ॥ [ ] 'अथ पूर्वापरयोः प्रत्यक्षस्याप्रवृत्तेर्न कार्यकारणभावः, अनुमानसिद्धावितरेतराश्रयदोषः' इति, तदपि प्रतिविहितम् , एवं हि सर्वशून्यत्वमायातमिति कस्य दूषणं साधनं वा केन प्रमाणेन ? इहलोकस्याप्यभावप्रसक्तेरिति प्रतिपादितत्वात् । अथ कार्यविशेषस्य विशिष्टकारणपूर्वकत्वसिद्धौ यथोक्तप्रकारेण भवतु पूर्वजन्मसिद्धिः, भावि२० परलोकसिद्धिस्तु कथम् भाविनि प्रमाणाभावात् ? तत्रापि कार्यविशेषादेवेति ब्रूमः । तथाहि-कार्यविशेषो विशिष्टं सत्त्वमेव, तच्च न सत्तासंबन्धलक्षणम् ; तस्य निषेत्स्यमानत्वात् । नाप्यर्थक्रियाकारित्वलक्षणम् , सन्ततिव्यवच्छेदे तस्याभावप्रसङ्गात् । तथाहि-शब्द-बुद्धि-प्रदीपादिसन्तानानां यद्युच्छेदोऽभ्युपगम्यते तदा तत्सन्ततिचरमक्षणस्यापरक्षणाजननादसत्त्वम्, तदसत्त्वे च पूर्वपूर्वक्षणानामर्थक्रियाऽजननादसत्त्वमिति सकलसन्तत्यभावः। अथ सन्तत्यन्तक्षणः सजातीयक्षणान्तराजननेऽपि २५ सर्वज्ञसन्ताने स्वग्राहिज्ञानजनकत्वेन सन्निति नायं दोषः, तदसत् : स्वसन्ततिपतितोपादेयक्षणाजन कत्वे परसन्तानवर्तिस्वग्राहिज्ञानजनकत्वस्याप्यसंभवात् । न पादानकारणत्वाभावे सहकारिकारणत्वं क्वचिदप्युपलब्धम् । तत्सद्भावे वा एकसामग्र्यधीनस्य रूपादे रसतस्तत्समानकालभाविनोऽव्यभिचारिणी प्रतिपत्तिर्न स्यात्, रूपक्षणस्य स्वोपादेयक्षणान्तराजननेऽपि रससन्ततौसहकारिकारणत्वेन रस क्षणजनकत्वाभ्युपगमात् तत्सद्भावेऽपि तत्समानकालभाविनो रूपादेरभावात । तन्नोपादानकारणत्वा३० भावे सहकारित्वस्यापि संभव इति स्वसन्तत्युच्छेदाभ्युपगमेऽर्थक्रियालक्षणस्य सत्त्वस्यासम्भव इति उत्पाद-व्यय-ध्रौव्यलक्षणमेव सत्त्वमभ्युपगन्तव्यमिति कार्यविशेषलक्षणाद्धेतोर्यथोक्तप्रकारेणातीतकालवदनागतकालसंबन्धित्वमप्यात्मनः सिद्धम् । यदप्युक्तम् 'यद्यागमसिद्धत्वमात्मनः, तस्य वा प्रतिनियतकर्मफलसंबन्धस्तत्सिद्धोऽभ्युपगम्यते तदाऽनुमानवैयर्थ्यम्' इति, तदपि मूर्खेश्वरचेष्टितम् ; नहि व्यर्थम् इति निजकारणसामग्रीबलायतिं ३५ वस्तु प्रतिक्षेप्तुं युक्तम् ; नहि आगमसिद्धाः पदार्थाः इति प्रत्यक्षस्यापि प्रतिक्षेपो युक्तः । यदपि प्रत्यक्षाऽनुमानाविषये चार्थे आगमप्रामाण्यवादिभिस्तस्य प्रामाण्यमभ्युपगम्यते-तदुक्तम् __"आम्नायस्य क्रियाऽर्थत्वादानर्थक्यमतदर्थानाम्-" [ जैमि० १-२-१] इति, सदप्ययुक्तम् । यतो यथा प्रत्यक्षप्रतीतेऽप्यर्थे विप्रतिपत्तिविषयेऽनुमानमपि प्रवृत्तिमासादयतीति प्रतिपादित तथा प्रत्यक्षाऽनुमानप्रतिपन्नेऽप्यात्मलक्षणेऽर्थे तस्य वा प्रतिनियतकर्मफलसंबन्धलक्षणे १-लक्षणं शरीरं चे-गु०। २-बाधितैकप्र-मा० । ३ तस्यैव च दाहा-वा०, बा०। ४ अनुमानभावसिद्धावि-वा०, बा. विना। ५एवं हि सति सर्व-भां०, मां०। ६ पृ. ७४ पं० २६ । ७ पृ. ७१५०६७।८-यातवस्तु का०।९ पृ७५ पं०१३। १०-यते क-का।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy