SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। ९१ १० कार्यहेतोः, कस्यचित् स्वभावहेतोरपिः अस्य तु बाधकात् प्रमाणाद् विपक्षात् प्रच्युतस्य यदेव साध्यधर्मिणि स्वसाध्यव्याप्ततया ग्रहणं तदेव साध्यग्रहणम् । न चास्यैवं द्वैरूप्यम्, यतो विपक्षाद् व्यावृ. त्तिरेवान्वयमाक्षिपति । इयांस्तु विशेषः कस्यचिद् हेतोाप्तिविषयप्रदर्शनाय धर्मिविशेषः प्रदर्श्यते, अस्य तु 'यत् सत् तत् क्षणिकम्' इति धर्मिविशेषाप्रदर्शनेऽपि धर्मिमात्राक्षेपेण व्याप्तिप्रदर्शनम् । तच्च सत्वं क्वचिद् व्यवस्थितमुपलभ्यमानं क्षणिकताप्रतिपत्त्यङ्गम् , अतः पक्षधर्मताऽप्यत्रास्ति, न चात्रैवम् । ५ अत्राप्येनमेव न्याय केचिदाहः। कथम? तत्र हि व्यापकस्य मयोगपद्यस्य निवत्या विपक्षात तन्निवृत्तिः, अत्रापि प्रमातृनियतताया व्यापिकाया अभावाद विपक्षात् प्रतिसन्धानलक्षणस्य हेतो. निवृत्तिः। अथ तत्र बाधकप्रमाणस्य व्याप्तिः प्रत्यक्षेण निश्चीयते-कम-योगपद्याभ्यामर्थक्रियाकरणस्य प्रत्यक्षेण निश्चयात्-अत्र तु कथम्? अत्रापि प्रमातृनियमपूर्वकत्वेन स्वसन्तान एवं प्रतिसन्धानस्य व्याप्तिनिश्चयात् कथं न तुल्यता? ___अथ ब्रूयात् 'प्रमातृनियतता' इत्यस्य भाषितस्य कोऽर्थः ? यदि परं भङ्ग्यन्तरेणैककर्तृकत्वं साध्यं व्यपदिश्यते तस्य प्रत्यक्षेण निश्चयाभ्युपगमे कथं बाधकप्रमाणावसेयता व्याप्तेः ? नैतत्, प्रमातृनियतताग्रहणं नैककर्तृकत्वग्रहणम् ; सर्वे एव हि भावा देशादिनियततयाऽवसीयमाना व्यवहारगोचरतामुपयान्ति, प्रमातुरप्यवसाय एवमेव दृश्यते-'इदानीमत्राहम्' । एवं देशाद्यसंसर्गवत् प्रमात्रन्तरासंस. गर्गोऽपि निश्चीयते । तथाहि-देश-कालनिबन्धननियमवद् व्यतिरिक्तपदार्थासंसर्गस्वभावनियतप्रति-१५ भासोऽपि घटादेरिव, अत्रैकत्वानेकत्वनिश्चयाभावः। पूर्वपाक्षिकमते तस्य नानाकर्तृकेषु सन्तानान्तरेषु व्यापकस्याभावाद् विपक्षात् प्रच्युतस्य प्रतिसन्धानस्य क्वचिदुपलभ्यमानस्यैककर्तृकत्वेन व्याप्तिः । यथा क्रम-योगपद्याभ्यामर्थक्रियाकरणदर्शने नैवं निश्चयः-'किं क्षणिकैः क्रम-योगपद्याभ्यां सा क्रियते, आहोस्विदन्यथा' इति, अथ च प्रत्यक्षेण बाधकस्य व्याप्त्यवसाये पश्चाद् व्यापकानुपलब्ध्या मूलहेतोाप्तिसिद्धिः एवमेककर्तृकत्वानवसायेऽपि प्रमातृनियततया प्रतिसन्धानस्य स्वसन्ततौ व्याप्ति-२० निश्चये सत्युत्तरकालं विपक्षे व्यापकस्य प्रमातृनियतत्वस्याभावादेककर्तृकत्वेन प्रतिसन्धानस्य व्याप्तिसिद्धिः। एवमनभ्युपगमे 'अहम् अन्यो वा' इति प्रमात्रनिश्चये प्रमेयानिश्चयाद् अन्धमूकं जगत् स्यात् । औपचारिकस्य प्रातृनियततया प्रतिभासविषयत्वेऽनात्मप्रत्यक्षत्वं दोषः। तत्रैतत् स्यात्-अस्त्ययं प्रमातृनियमनिश्चयः; स तु स्वसन्ततौ किमेककर्तृकत्वकृतः, उतस्विनिमित्तान्तरकृतो युक्तः ? तच्चैकस्यां सन्ततौ हेतु-फलभावलक्षणं प्राक् प्रदर्शितम् । सत्यम् , प्रदर्शितं २५ नतु साधितम् । तथाहि-तत्कृतः प्रमातृनियमो नान्यकृत इति नैतावत्प्रत्यक्षस्य विषयः; न च प्रमाणान्तरस्यापि । तद्धि अस्मिन् विषये उच्यमानम् अनुमानमुच्येत, तदपि प्रत्यक्षनिषेधान्निषिद्धम् । न च क्षणिकत्वव्यवस्थापने हेतु-फलभावकृतो नियम इत्यभ्युपगन्तुं युक्तम् , तस्योपरिष्टात् निषेत्स्यमानत्वात् । न चात एव दोषादू एककर्तृकत्वकृतोऽपि न नियम इति वक्तुं शक्यम् , स्वसंवेदनप्रत्यक्षसिद्धत्वस्य तत्पूर्वकानुमानसिद्धत्वस्य चात्मनि प्राग् व्यवस्थापितत्वात् । अभ्युपगमवादेन तु क्षणिकत्वव्यवस्थापक-३० सत्त्वहेतुतुल्यत्वमनुसन्धानप्रत्ययहेतोः प्रदार्शतम् ; न तु क्षणिकत्ववद् आत्मैकत्वस्य प्रत्यक्षासिद्धत्वम् येनानुमानात् तेत्प्रसिद्ध्यभ्युपगमे इतरेतराश्रयदोषप्रसङ्गः प्रेर्येत । अतोऽध्यक्षानुमानप्रमाणसिद्धत्वात् परलोकिनः “परलोकिनोऽभावात् परलोकाभावः” इति सूत्रं निःसारतया व्यवस्थितम् । __यदप्युच्यते 'शरीरान्तर्गतं संवेदनं कथं शरीरान्तरसंचारि; जीवतस्तावन्न शरीरान्तरसंचारो दृष्टः, परस्मिन् मरणसमये भविष्यतीति दुरन्वयमेतत् तदपि न युक्तम् । यतः कुमारशरीरान्तर्गताः पाण्डि-३५ त्यादिविकल्पा वृद्धावस्थाशरीरसंचारिणो दृश्यन्ते जीवत एव, चपलतादिशरीरावस्थाविशेषाः वागूविकाराश्च तत् कथं न जीवतः शरीरान्तरसंचारः? अथैकमेवेदं शरीरं बाल-कुमारादिभेदभिन्नम्, जन्मान्तरशरीरं तु मातापित्रन्तरशुक्र-शोणितप्रभवम्-शरीरान्तरप्रभवम् , एतदप्ययुक्तम् ; बाल-कुमारशरीरस्यापि मेदात् यथा च बाल-कुमारशरीरचपलताभेदस्तरुणादिशरीरसञ्चारी उपलभ्यते तथा १ क्रमस्य योगप-वा०, बा०, गु०, कां। २-मानव्यव-कां०, गु० । ३-कत्वे नि-वृ०, आ० । ४-श्चयभावः वा०, बा०। ५-मातृनि-मां०। ६-मातुर्नियत-मां० ब० ।-मातृर्नियत-वा०, बा०। ७-क्षत्वदोषः वा०, बा० विना। ८ पृ. ९१ ५६। ९ तत्प्रतिसि-वा०, बा० विना। १० पृ. ७१ पं० २९ । ११ पृ. ७१ पं० ३४ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy