SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेतु तत्परिकल्पनमयुक्तम, इतरेतगश्रयप्रसङ्गात् । तथाहि-योधस्य शक्तिविशेषसिद्धनीलं प्रति पेशिः. तत्सिद्धेश्च तळक्तिसिद्धिरिति व्यक्तमितरेतराश्रयत्वमा तनयोधस्य नीलं प्रति ग्राहकत्वसिद्धिः; तस्माद् व्यतिरिक्तऽपि बोधेऽभ्युपगते सहोपलम्भनियमात् स्वसंवेदनमेव युक्तम् । परमार्थतस्तु सुग्वादयो नीलादयश्चापगेक्षा इत्यतावदेव भाति, निराकारस्तु योधः स्वप्नेऽपि ५नोपलभ्यत इति न तम्य सद्भाव इति कथं तम्यार्थग्राहकत्वम् ? अत एव ते प्रमाणयन्ति-बह खल यत प्रतिभाति तदेव सद्यवहतिपथमवतगति, यथा हृदि प्रकाशमानवपुः सुखम्, न तत्काले पीडाऽनुद्भासमाना समस्ति, विक्षतिरेव च नीलादिरूपतया सकलतनुभृतामाभातीति स्वभावहेतुः। तदेषमर्थप्राहकत्वस्याप्यसि हेः जडम्य प्रकाशविरुद्धत्वाश्च नार्थग्राहकत्वमपि योद्धदृष्ट्या युक्तम् } । ___ अथ बहिर्देशसंघद्धम्य जडम्यापि नीलादेग्नुभवान्न नीलादिप्रकाशस्य तग्राहकत्वमसिद्धम्, १० नाप्यनुभूयमाने स्तम्भादिके जडे प्रकाशविषयत्वविरोधोद्भावनं युक्तिसंगतम्। प्रत्यक्षसिद्धस्वभावे' वस्तुनि तद्विरुवम्वभावावेदकस्यानुमानम्य प्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तकालात्ययापदिष्ट. स्वदोषदुष्टहेतुप्रभवत्वेनानुमानाभासत्वात् । न च प्रत्यक्षसिद्ध स्वभावे विरोधः सिध्यति; अन्यथा ज्ञानस्यापि ज्ञानत्वविरोधप्राप्तिः । नन्वेवं नीलादिसंवेदनस्यापि हृदि स्वसंवेदनविषयतयाऽनुभवान स्वसंविदितत्वमसिद्धम् , नापि स्वात्मनि क्रियाविरोधोद्भावनं युक्तियुक्तम् : अनुभूयमाने विरोधा१५सिद्धेः । अस्वसंवेदनशानसाधकत्वेनोपन्यम्यमानस्य च हेनोः प्रत्यक्ष निराकृतपक्षविषयत्वेन न साध्यसाधकत्वमित्यपि समानम् । किंच, स्वसंविदितज्ञानानभ्युपगमे 'प्रतीयतेऽयमी यहिर्देशसंबन्धितया' इस्यत्र प्रतीतेर्व्यवस्थापिकाया अप्रतीतत्वेनाऽव्यवस्थिती व्यवस्थाप्यस्यार्थस्य न व्यवस्थितिः स्यात् । नहि स्वयमव्यवस्थितं खरविषाणादि कस्यचिद व्यवस्थापकम्पलब्धम् । अथ प्रतीतेरसंविदितत्वेऽपि एकार्थ२० समवेतानन्तरप्रतीतिव्यवस्थापिनत्वेन नाव्यवस्थितत्वं तर्हि तदेकार्थसमवेतानन्तरप्रतीतेरपि अपरतधाभूतप्रतीत्यव्यवस्थापितत्वे नाऽर्थव्यवस्थापनप्रतीतिव्यवस्थापकत्वमिति पुनरपि तथाभू. ताऽपरा प्रतीतिः प्रतीतिव्यवस्थापिकाऽभ्युपगन्तब्येत्यनवस्था। अथ प्रतीतिव्यवस्थापिका प्रतीतिः स्वसंविदितत्वेन स्वयमेव व्यवस्थितेति नायं दोषस्नहर्थव्यवस्थापिकाऽपि प्रतीतिस्तथा किं नाभ्यु पगम्यते न्यायस्य समानत्वात् ? अथ प्रतीतिरप्रतीताऽपि प्रतीत्यन्तरव्यवस्थापिका तर्हि प्रथमप्र२५तीतिरप्यव्यवस्थिताऽप्यर्थव्यवस्थापिका भविष्यतीति "नागृहीतविशेषणा विशेष्ये बुद्धिः" | इति वचः कथं न परिवेत? 'प्रतीतोऽर्थः' इति विशेष्यप्रतिपत्ती प्रतीति विशेषणानवगमेऽपि विशेष्यप्रतिपत्त्यभ्युपगमात् । ___ अपि च, यदि तदेकार्यसमवेतनानान्तरग्राह्यं ज्ञानमर्थग्राहकमभ्युपगम्यते तदा पूर्वपूर्वक्षानोपलम्भनस्वभावानामुत्तरोत्तरज्ञानानामनवरतमुत्पत्तर्विषयान्तरसंचारो ज्ञानानां न स्यात, विषया. ३०न्तरसंनिधानेऽपि पूर्वज्ञानलक्षणस्य तदेकार्थसमवेतस्यान्तरङ्गत्वेनातिसंनिहिततरस्य विषयस्य सद्भावात् । यस्त्वाह-विषयोपलम्भनिमित्तमात्रप्रतिपत्ती प्रतीतिविशेषणस्यार्थस्य सिद्धत्वाद् नानवस्था' तदेतदेव न संगच्छते, स्वसंवेदनज्ञानानभ्युपगमात् : एतश्च प्रतिपादितम् । अपि च, प्रमाणसंप्लववादिना नैयायिकेन प्रत्यक्ष-शाब्दज्ञानयोरेकविषयत्वमभ्युपगतम्, तथा चाध्यक्षशानवत् शाब्देऽपि तस्यैवान्यूनानतिरिक्तस्य विषयस्याधिगमे न प्रतिपत्तिमेद ३५इति अध्यक्षवच्छाब्दमपि स्पष्टप्रतिभासं स्यात् । अथैकविषयत्वे सत्यपि इन्द्रियसंबन्धाभावाच्छब्दविषये प्रतिपत्तिभेदः, नन्वरपि विषयस्वरूपमुद्भासनीयम्, तच्च यदि शाब्देनापि प्रदर्श्यते तथा सति इन्द्रियसंबन्धाभावेऽपि किमिति न स्पष्टावभासः शाब्दस्य? नहि विषयभेदमन्तरेण झानावभासमेदो युक्तः, अन्यथा ज्ञानावभासभेदाद् विषयभेदव्यवस्था न स्यात् । नहि बहिरपि तदवभासमेदसंवेदनव्यतिरेकेणान्यदू भेदव्यवस्थानिबन्धनमुत्पश्यामः। अन्यच्च प्रत्यक्षेऽपि साक्षा. ४०दिन्द्रियसंबन्धोऽस्तीति न स्वरूपेण ज्ञातुं शक्यः-तस्यातीन्द्रियत्वात्-किन्तु स्वरूपप्रतिभासात् कार्यात्। तचाविकलं यदि शाब्देऽपि वस्तुस्वरूपं प्रतिभाति तदा तत एवेन्द्रियसंबन्धस्तत्रापि १-थे च सति त-मां०, भा०, वा०, बा• विना। २-षयोऽप्रति-कां०, गु०। ३-दि शब्दे-मा०, भो०, वा०, बा०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy