SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः । अथ नीलं तद्दर्शन विरतावपि परदृशि प्रतिभातीति साधारणतया ग्राह्यम् । विज्ञानं त्वसाधारणतया प्रकाशकम्, नैतदपि युक्तम् यतो नीलस्य न साधारणतया सिद्धः प्रतिभासः, प्रत्यक्षेण स्वप्रतिभासिताया एवावगतेः । नहि नीलं परदृशि प्रतिभातीत्यत्र प्रमाणमस्ति, परदशोऽनधिगमे नीलादेस्तद्वेद्यताऽनधिगतेः । ८३ अनुमानेन नीलादीनां साधारणता प्रतीयते - यथैव हि स्वसन्ताने नीलदर्शनात् तदा - ५ दानार्था प्रवृत्तिस्तथाऽपरसन्तानेऽपि प्रवृत्तिदर्शनात् तद्विषयं दर्शनमनुमीयते नैतदप्यस्ति; अनुमानेन स्व-परदर्शनभृतो नीलादेरेकताऽसिद्धेः तद्धि सदृशव्यवहारदर्शनादुपजायमानं स्वहसतां परदृष्टस्य प्रतिपादयेत्, यथाऽपरधूमदर्शनात् पूर्वसदृशं दहनमधिगन्तुमीशो न तु तमेव पूर्वदृष्टम्, सामान्येनान्वयं परिच्छेदात् । तन्नानुमानतोऽपि ग्राह्याकारस्यैकता । ननु भेदोऽप्यस्य न सिद्ध एव । प्रतिभासभेदे सति कथमसिद्धः परप्रतिभासपरिहारेण स्वप्र - १० तिभासान् स्वप्रतिभासपरिहारेण च परप्रतिभासान् विवेकस्वभावान् व्यतिरेचयति अन्यथा तस्यायोगात् ? ततः स्व-परदृष्टस्य नीलादेः प्रतिभासभेदाद् व्यवहारे तुल्येऽपि भेद एव; इतरथा रोमाञ्चनिकरसदृश कार्यदर्शनात् सुखादेरपि स्व- परसन्तानभुवस्तत्त्वं भवेत् । अथापि सन्तानभेदात् सुखादेर्भेदः; ननु सन्तान भेदोऽपि किमन्यभेदात् ? तथा चेदनवस्था । अथ तस्य स्वरूपभेदादू भेदः सुखादेरपि तर्हि स एवास्तु, अन्यथा भेदासिद्धेः । न ह्यन्यभेदादन्यद् १५ मिन्नम्, अतिप्रसङ्गात् । नीलादेरपि स्व- परप्रतिभासिनः प्रतिभासभेदोऽस्तीति नैकता । अथ देशैकत्वादेकत्वम्, ननु देशस्यापि स्व-परदृष्टस्यानन्तरोक्तन्यायाद् नैकता युक्ता । तस्माद् ग्राहकाकारवत् प्रतिपुरुषमुद्भासमानं नीलादिकमपि भिन्नमेव । तंच्चैककालोपलम्भादू ग्राहकवत् स्वप्रकाशम् । अथ ग्राहकाकारश्चिद्रूपत्वाद् वेदको नीलाकारस्तु जडत्वाद् ग्राह्यः, अत्रोच्यते - किमिदं २० बोधस्य चिद्रूपत्वम् ? यद्यपरोक्षं स्वरूपं नीलादेरपि तर्हि तदस्तीति न जड़ता । अथ नीलादेरपरोक्षस्वरूपमन्यस्माद्भवतीति ग्राह्यम्, ननु बोधस्यापि स्वस्वरूपमिन्द्रियादेर्भवतीति ग्राह्यं स्यात् । अथ यद् इन्द्रियादिकार्य न तद् वेद्यम्, नीलादिकमपि तर्हि नयनादिकार्यमस्तु न तु ग्राह्यम् । अथापि वोघो बोधस्वरूपतया नित्यो नीलादिकस्तु प्रकाश्यरूपतयाऽनित्य इति ग्राह्यः, तदप्यसत्; स्तम्भादेर्नयनादिवलादुदेति रूपमपरोक्षत्वम्, तद् अनित्यः स्तम्भादिर्भवतु, ग्राह्यस्तु २५ कथम् ? न हि यद् यस्मादुत्पद्यते तत् तस्य वेद्यम्, अतिप्रसङ्गात् । तस्मादपरोक्ष स्वरूपाः स्तम्भादयः स्वप्रकाशाः बोधस्तु नित्योऽनित्यो वा तत्काले केवलमुद्भाति न तु वेदकः, द्वयोरपि परस्परं ग्राह्यग्राहकतापत्तेः । अथ नीलोन्मुखत्वाद् बोधो ग्राहकः, किमिदं तदुन्मुखत्वं नाम बोधस्य ? यदि नीलकाले सत्ता सा नीलस्यापि तत्काले समस्तीति नीलमपि बोधस्य वेदकं स्यात् । अथान्यदुन्मुखत्वम् तत् तर्हि ३० स्वरूप निमग्नं चकासत् तृतीयं स्वरूपं भवेत् । तथाहि--तस्य तदुन्मुखत्वं तयापारः, स च व्यापारो यदि नीले व्याप्रियते तदा तत्राप्यपरो व्यापार इत्यनवस्था । अथ न व्याप्रियते न तद्बलाद् बोधस्य ग्राहकत्वं नीलादेस्तु ग्राह्यत्वम् । अथ व्यापारस्यापरव्यापारव्यतिरेकेणापि नीलं प्रति व्यापृतिरूपता, तस्य तद्रूपत्वात् ननु नीलस्यापि स्वं स्वरूपं विद्यत इति बोधं प्रति ग्रहणव्यापृतिः स्यात् । किञ्च, बोधेन यदि नीलं प्रति ग्रहणक्रिया जन्यते सा नीलादू भिन्ना, अभिन्ना वा ? भिन्ना चेत्, ३५ न तया तस्य ग्राह्यत्वम्, भिन्नत्वादेव । अथाभिन्ना तर्हि नीलादेर्ज्ञानरूपता, ज्ञानजन्यत्वादुत्तरज्ञानक्षणवत् । अथ ज्ञानस्यैवंभूता शक्तिर्येन तस्य नीलं प्रति ग्राहकता नीलादेस्तु तं प्रति प्राह्यता । ननु बोधस्य ग्राहकत्वे नीलादेस्तु ग्राह्यत्वे सिद्धे शक्तिपरिकल्पना युक्ता, शक्तेः कार्यानुमेयत्वात् तदसिद्धौ १-मानस्वदृष्ट- हा० । २-सात् कां०, गु० चं अ० । ३-सात् कां०, गु० चं अ० । ४ - वात् वा०, ब० । ५ - सभेदाद् भेदो-भां०, मां० । ६- कत्वात् तदेक-भां०, मां० । ७ तथैक-गु० । ८-दं चिद्रूपत्वं बोधस्य य-भां०, मां० । ९ अन्यदुन्मु-भां०, मां० १० तृतीयस्वरू- कां०, गु० । ११ - पि स्वरू- भां०, मां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy