SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। ८५ किं नाभ्युपगम्यते ? अथ तत्र स्पष्टप्रतिभासाभावान्नासावनुमीयते; ननु तदभावस्तदक्षसंगतिविरहात्, तदभावश्च स्फुटप्रतिभासाभावादिति सोऽयमितरेतराश्रयदोषः । तस्माद् विषयभेदनिबन्धन एव ज्ञानप्रतिभासभेदावसायोऽभ्युपगन्तव्यः; स चैकविषयत्वे शाब्दाऽध्यक्षशानयोर्न संगच्छते । अथ शाब्दे वस्तुरूपावभासेऽपि न सकलतद्गतविशेषावभास इत्यस्पष्टप्रतिभासं तत् ; नन्वेवं प्रत्यक्षावभासिनो विशेषस्यार्थक्रियाक्षमस्य तत्राप्रतिभासनात् तदेव मिन्नविषयत्वं शाब्दाऽध्यक्षयोः ५ प्रसक्तम् । अथोभयत्रापि व्यक्तिस्वरूपमेकमेव नीलादित्वं प्रतिभाति विशदाऽविशदौ चाकारौ ज्ञानात्मभूतोः नन्वेवमक्षसंबद्ध विषये प्रतिभासमाने तत्कालः स्पष्टत्वावभासो ज्ञानावभास इति प्राप्तम्, विशिष्टसामग्रीजन्यस्य ज्ञानस्य विशदत्वात्, तदवभासव्यतिरेकेण तु अक्षसंबद्धनीलप्र. तिभासकालेऽन्यस्य भवदभ्युपगमेन वैशद्यप्रतिभासनिमित्तस्यासंभवात् । ___अथ च भवतु विशदज्ञानप्रतिभासनिमित्त एव तत्र वैशद्यप्रतिभासव्यवहारस्तथापि न स्वसंवि-१० दिततज्ज्ञानसिद्धिः, तदेकार्थसमवेतज्ञानान्तरवेद्यत्वेऽपि तद्यवहारस्य संभवात् ; एककालावभासव्यवहारस्तु लघुवृत्तित्वान्मनसः क्रमानुपलक्षण निमित्तः उत्पलपत्रशतव्यतिमेदवत् । नन्वेवं सत्यङ्गलिपञ्चकस्यैकंज्ञानावभासोऽपि क्रमावभासे सत्यपि तत एव क्रमप्रतिभासानुपलक्षणकृत इति 'सदसद्धर्मः सर्वः कस्यचिदेकज्ञानप्रत्यक्षः, प्रमेयत्वात् , पञ्चाङ्गलिवत्' इति सर्वसाधकप्रयोगे दृष्टान्तस्य साध्यविकलताप्रसक्तिः । तथा, समस्तसदसद्धर्मग्राहकेण सर्वविज्ज्ञानेन ज्ञानात्मा १५ गृह्यते, उत नेति ? यदि न गृह्यते तदा तस्य प्रमेयत्वे सति तेनैव प्रमेयत्वलक्षणो हेतुर्यभिचारी, अप्रमेयत्वे तस्य भागासिद्धो हेतुः । अथ सर्वज्ञज्ञानेन सर्वपदार्थग्राहिणा आत्माऽपि गृह्यत इति नानैकान्तिका; नन्वेवं सति यथेश्वरज्ञानं ज्ञानत्वेऽप्यात्मानं स्वयं गृह्णाति न च तत्र स्वात्मनि क्रियाविरोधः तथाऽस्मदादिज्ञानमप्येवं भविष्यतीति न कश्चिद् विरोधः किञ्च, एवमभ्युपगमे 'ज्ञानं ज्ञानान्तरग्राह्यम्, प्रमेयत्वात् , घटवत्' इत्यत्र प्रयोगे ईश्वरज्ञानस्य २० प्रमेयत्वे सत्यपि ज्ञानान्तरग्राह्यत्वाभावात् तेनैवानैकान्तिकः 'प्रमेयत्वात्' इति हेतुः। तस्मात् ज्ञानस्य शानान्तरग्राह्यत्वेऽनेकदोषसंभवात् स्वसंविदितं ज्ञानमभ्युपगन्तव्यम् । ज्ञानस्वरूपश्चात्मा, अन्यथा भिन्नज्ञानसद्भावादाकाशस्येव तस्य शातृत्वं न स्यात् । न चाकाशव्यतिरेकेण ज्ञानमात्मन्येव समवेतमिति तस्यैव ज्ञातृत्वं नाकाशादेरिति वक्तुं युक्तम्, समवायस्य निषेत्स्यमानत्वात् । ज्ञानस्य च स्वसंविदितत्वे सिद्ध आत्मनोऽपि तदव्यतिरिक्तस्य तत सिद्धमिति २५ कथं न स्वसंवेदनप्रत्यक्षसिद्धत्वमात्मनः? तन्न प्रथमर्पक्षस्य दुष्टत्वम् ।। द्वितीयपक्षेऽपि यदुक्तम् 'नहि कश्चित् पदार्थः कर्तृरूपः करणरूपो वा स्वात्मनि कर्मणीव सव्यापारो दृष्टः' इति, तदप्यसङ्गतम्: मिन्नव्यापारव्यतिरेकेणापि आत्मनः कर्तुः प्रमाणस्य च ज्ञानस्य स्वसंविदितत्वप्रतिपादनात् । एकस्यैव च लिङ्गादिकरणमपेक्ष्यावस्थामेदेन यथा प्रमातृत्वं प्रमेयत्वं च भवद्भिरविरुद्धत्वेनाभ्युपगम्यते तथैकदाऽप्येकस्यात्मनः अनेकधर्मसद्भावात् ३० प्रमातृत्व-प्रमाणत्व-प्रमेयत्वान्यविरुद्धानि किं नाभ्युपगम्यन्ते तत्तद्धर्मयोगात् तत्तत्स्वभावत्वस्य प्रमाणनिश्चितत्वेनाविरोधात् ? यञ्चोक्तम् 'प्रमाणाविषयत्वेऽप्यपरोक्षतेत्यस्य भाषितस्य कोऽर्थः' इत्यादि, तदप्यसारम् ; ज्ञातृतया प्रमाणत्वेन च स्वरूपावभासनस्य प्रतिपादितत्वात् । न च घटादेः स्वरूपस्य भिन्नज्ञानग्राह्यत्वात् प्रमातुः प्रमाणस्य च स्वरूपं भिन्नज्ञानग्राह्यम्, तयोश्चिद्रूपत्वेन घटादेस्तु तद्विपर्ययेण स्वरूपस्य सिद्धत्वात् । न च प्रमाण-प्रमातृस्वरूपग्राहकस्य प्रत्यक्षस्य तल्लक्षणेनासंग्रहः, ३५ तत्संग्राहकस्य लक्षणस्य प्रदर्शितत्वात्। यदपि 'घटमहं चक्षुषा पश्यामि' इत्यनेनातिप्रसङ्गापादनं कृतम्, तदप्यसङ्गतम्। नहि चक्षुषो जडरूपस्यास्वसंविदितत्वे प्रमातृ-प्रमित्योरपि चिदूपयो. रस्वसंविदितत्वं युक्तम्; अन्यस्वभावत्वानुपपत्तेः। यत्तक्तम् 'इन्द्रियव्यापारे सति शरीराद् व्यवच्छि १शब्देर्वस्तु-वा०, बा. विना। २शब्दा-कां०, गु०। ३ अथ भवतु का०, भां०, मां० । ४-व शाना-गु०। ५-सद्वर्गः स-मां०, भां०, वा०, बा. विना। ६-सर्गग्रा-मां०, भां०, वा०, बा. विना । ७-नरूपश्चा-मां०, भा०, वा०, बा०। ८० ७९ पं० ११ गतस्य 'किं चिद्रूपस्य सत्ता' इति पक्षस्य । ९पृ. ७९ पं० १८। १० पृ. ८४ पं० १७-प्र० पृ. पं० २६। ११ पृ. ७९ पं० २१। १२ पृ. ७९ पं० २१। १३ पृ० ८० पं० २६ । १४ पृ० ७९ पं० ३४ । १५पृ० ७९ पं० ३९ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy