SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - भासनम्' इति पर्यनुयोगे' मूकत्वं परिहारमाहुः, व्यपदेष्टुमशक्यत्वात् । अतः प्रमात्रवभासानुपपत्तिः । ननु 'अहम्' इति प्रत्ययः सर्वलोकसाक्षिको नैवापह्नोतुं शक्यः । अनपह्नवे सविषयः, निर्विषयो वा? निर्विषयता प्रत्ययानामबाधितरूपाणां कथम् ? सविषयत्वेऽपि प्रमात्रप्रतिभासे किंविषयोऽयं प्रत्ययः ? न प्रत्ययापह्नवः न चास्य निर्विषयता किन्तु देहादिव्यतिरिक्तो विषयत्वेनावभासमान आ५ त्माऽस्य न विषयः न च ज्ञातृत्वेनावभासमान इत्युच्यते । कस्तर्हि विषयः ? शरीरमिति ब्रूमः । तथाहि'कृशोऽहम् स्थूलोऽहम् गौरोऽहम् इति शरीराद्यालम्बनैः प्रत्ययैरस्य समानाधिकरणताऽवसीयते । नन्वेवं संख्यादिप्रत्ययैरप्यहङ्कारस्य समानाधिकरणता - सुख्यहं दुःख्यहमिति वा, अतो न देहविषयता । यच्चोच्यते 'गौरोऽहमित्यादिसामानाधिकरण्यदर्शनाच्छरीरालम्बनत्वम्' इति, तत्राप्येतद्विचार्यम् - गौरादीनां शरीरादिव्यतिरिक्तानाम नहङ्कारास्पदत्वं दृष्टं तच्छरीरादिगतानामपि युक्तं व्यव१० स्थापयितुम् । तथा च वार्त्तिककृतोक्तम् - " न हास्य द्रष्टुर्यदेतद् मम गौरं रूपं सोऽहमिति भवति प्रत्ययः, केवलं मतुब्लोपं कृत्वैवं निर्दिशति" [ न्यायवा० पृ० ३४१ पं० २३ ] अयमर्थः शरीरेऽहङ्कार औपचारिको न तात्त्विकः यथाऽन्यस्मिंस्तत्कार्यकारिण्यत्यन्त निकटेseङ्कारो गौणः 'योऽयं सोऽहम् इति, एवं शरीरेऽपि । यतो निमित्ताद् अयमेतस्मिंस्तूभयसंप्रतिपनेऽनात्मरूपे इदंताप्रत्ययविषयेऽहङ्कारस्तत एव शरीरेऽपि । आत्मविषयस्तत्रहङ्कारो नौपचारिकः, १५ इदंप्रत्ययासभिन्नाहंप्रत्ययप्रतिभासित्वात् प्रमाता शरीरादिव्यतिरिक्तः । ८० एतदेव कथम् ? 'ममेदं शरीरम् इति प्रत्ययोपादानात् 'ममायमात्मा' इति प्रत्ययाभावाच्च । ननु 'ममायमात्मा' इति किं न भवति प्रत्ययः ? न भवतीति ब्रूमः । कथं तह्येवमुच्यते ? केवलं शब्द उच्चार्यते न तु प्रत्ययस्य संभवः । अत्रापि ममप्रत्ययप्रतिभासस्यादर्शनात् शब्दोच्चारणमात्रं केन वार्यते । किमिदानीं सुखादियोगः शरीरस्येप्यते ? नैवम्, सुखादियोगाभावात् मिध्याप्रत्ययोऽयं 'सुख्यहम्' इति २० न त्वेतदालम्बनः । अतो व्यवस्थितम् - ज्ञातृप्रतिभासादर्शनात् प्रतिभासे वा शरीरस्य ज्ञातृत्वेनावभासनान्न देहादिव्यतिरिक्तस्याहंप्रत्ययविषयताः शरीरस्य च ज्ञातृत्वेनावभासमानस्यापि प्रमाणसिद्धबुद्धियोगनिषेधान्मिथ्याप्रत्ययालम्बन्ताः न तु तस्याचैतन्येऽन्यः कश्चिद् ज्ञाता प्रत्यक्षप्रमाणविषयः सिध्यतीत्यादि} तदप्यसङ्गतम् यतो भवतु जैमिनीयानां "सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म प्रत्यक्षम् " [ जैमि० अ० १-१-४] इतिलक्षणलक्षितेन्द्रियप्रत्यक्षवादिनाम् 'अहम्' इत्यवभासप्रत्य२५ यस्यानिन्द्रियजत्वेनात्राऽप्रत्यक्षत्वदोषो नास्माकं जिनमतानुसारिणाम्, न ह्यस्माकमिन्द्रियजमेव प्रत्यक्षं किंतु यद् यत्र विशदं ज्ञानमिन्द्रियानिन्द्रियनिमित्तं तत् तत्र प्रत्यक्ष मित्यभ्युपगमात्, "तद् इन्द्रियानिन्द्रियनिमित्तम्” [ तत्त्वार्थ० अ० १ सू० १४ ] इति वाचक मुख्यवचनात् । तेन यथा प्रत्यक्षविषयत्वेन घटादेः प्रत्यक्षता तथाऽऽत्मनोऽपि स्वसंवेदनाध्यक्षतायां को विरोधः ? अत एव यदुच्यते 'घटादेर्भि नज्ञानग्राह्यत्वेन प्रत्यक्षता व्यवस्थाप्यते; आत्मनस्त्वपरोक्षत्वेन प्रतिभासनात् प्रत्यक्षत्वम् । तच्च केवलस्य ३० घटादिप्रतीत्यन्तर्गतस्य वाऽपरसाधनं प्राक् प्रतिपादितमित्यत्र अपरसाधनमिति कोऽर्थः किं चिद्रूपस्य सत्ता, आहोस्वित् स्वप्रतीतौ व्यापारः ? इति पक्षद्वयमुत्थाप्य प्रथमपक्षे चिद्रूपस्य सत्तैवात्मप्रकाशनं यद्युच्यते तदा दृष्टान्तो वक्तव्यः' इति, तन्निरस्तम्: अध्यक्षप्रतीतेऽर्थे दृष्टान्तान्वेषणस्यायुक्तत्वात् । अथ विवादगोचरेऽध्यक्षप्रतीतेऽपि दृष्टान्तान्वेषणं लोके सुप्रसिद्धमिति सोऽत्रापि वक्तव्यस्तदाऽस्त्येव प्रदीपादिलक्षणो दृष्टान्तोऽपि ज्ञानस्य प्रकाशं प्रति सजातीयापरानपेक्षणे साध्ये | ३५ तथाहि - यथा प्रदीपाद्यालोको न स्वप्रतिपत्तावालोकान्तरमपेक्षते तथा ज्ञानमपि स्वप्रतिपत्तौ न समानजातीय ज्ञानापेक्षम् । एतावन्मात्रेणाऽऽ लोकस्य दृष्टान्तत्वं न पुनस्तस्यापि ज्ञानत्वमासाद्यते । ये 'इन्द्रियग्राह्यत्वाच्चक्षुष्मतामिवान्धानामपि तत्प्रतीतिप्रसङ्गः' इति प्रेर्यते । न हि दृष्टान्ते साध्य-धर्म-धर्माः सर्वेऽपि आसञ्जयितुं युक्ताः अन्यथा घटेऽपि शब्दधर्माः शब्दत्वादयः प्रसज्येरनिति तस्यापि श्रोत्रग्राह्यत्वप्रसङ्गः । न च साधर्म्यदृष्टान्तमन्तरेण प्रमाणप्रतीतस्याप्यर्थस्याप्रसिद्धिरिति ४० शक्यं वक्तुम्, अन्यथा जीवच्छरीरस्यापि सात्मकत्वे साध्ये तोद्वन्तन्म (तद्वत् तत्प्र) सिद्धदृष्टान्तस्याभावात् प्राणादिमत्त्वादेस्तत्सिद्धिर्न स्यात् । अथ साधर्म्यदृष्टान्ताभावेऽपि दृष्टवैधर्म्यदृष्टान्तस्य घटादेः सद्भावात् केवलव्यतिरेकिबलात् तत्र १- गेन मूकत्वं वा०, बा० । २-स्य विषयः वा०, बा० । ३ सुखादि-भां० । ४-स्तु रूपसंप्रति-भां०मां० ब० । ५ प्रत्यक्षः भां०, मां० । ६ अथापि वा०, बा० । ७- द्धाद् मां० । जैन- कां० । ९ पृ० ७९ पं० ६ ॥ १० पृ० ७९ पं० १५ । ११ - साध्यतोद्वन्तत्प्र-गु० । साध्यनोच्चतन्त्र - गु० ब० । साध्ये बोधंतत्प्र - चं० । १२ - व्यतिरेकिवत् तत्र वा०, बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy