SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः । तत्सिद्धिस्तर्हि यत्र स्वप्रकाशकत्वं नास्ति तत्रार्थप्रकाशकत्वमपि नास्ति, यथा घटादाविति व्यतिरेकदृष्टान्तसद्भावादर्थप्रकाशकत्वलक्षणाद्धेतोः स्वप्रकाशकत्वं विज्ञानस्य किमिति न सिद्धिमासादयति ? यत्तूक्तम् ' कस्यचिदर्थस्य काचित् सामग्री, तेन प्रकाशः प्रकाशान्तरनिरपेक्ष एव स्वग्राहिणि ज्ञाने प्रतिभाति' तद् युक्तमेव, यथा हि स्वसामग्रीत उपजायमानाः प्रदीपालोकादयो न समानजातीयमालोकान्तरं स्वग्राहिणि ज्ञाने प्रतिभासमाना अपेक्षन्ते तथा स्वसामप्रीत ९ उपजायमानं विज्ञानं स्वार्थप्रकाशस्वभावं स्वप्रतिपत्तौ न ज्ञानान्तरमपेक्षते; प्रतिनियतत्वात् स्वकारणायत्तजन्मनां भावशक्तीनाम् । यत्तु प्रदीपालोकादिकं सजातीयालोकान्तरनिरपेक्षमपि स्वप्रतिपत्तौ ज्ञानमपेक्षते तत् तस्याज्ञानरूपत्वात् ज्ञानस्य च तद्विपर्ययस्वभावत्वाद् युक्तियुक्तमिति 'नैकत्र दृष्टः स्वभावोऽन्यत्रासञ्जयितुं युक्तः' इति पूर्वपक्षवचो निःसारतया व्यवस्थितम् । अथालोकस्य तदन्तरनिरपेक्षा प्रतिपत्तिरुपलब्धेति न तद्दृष्टान्तबलाद् ज्ञानस्यापि ज्ञानान्तर- १० निरपेक्षा प्रतिपत्तिः, अदृष्टत्वात् स्वात्मनि क्रियाविरोधाच्च; नन्वेवमुपलभ्यमानेऽपि वस्तुनि यद्यदृष्टत्वम् विरोधश्चोच्येत तदा स्वात्मवद् घटादेरपि बाह्यस्य न ग्राहकं ज्ञानम्, अदृष्टत्वात् जडस्य प्रकाशायोगाश्चेत्यपि वदतः सौगतस्य न वक्रवक्रता समुपजायते । तथाह्य सावप्येवं वक्तुं समर्थः- जडं वस्तु न स्वतः प्रकाशते, विज्ञानवत्, जडत्वहानिप्रसङ्गात् । नापि परतः प्रकाशमानम्, नील-सुखादिव्यतिरिक्तस्य विज्ञानस्यासंवेदनेनासत्त्वात् । ८१ अथ 'नीलस्य प्रकाशः' इति प्रकाशमाननीला दिव्यतिरिक्तस्तत्प्रकाशः, अन्यथा भेदेनास्यां प्रतिपत्तौ संवेदनस्य तत्प्रतिभासो न स्यात्; ननु न नील- तद्वेदनयोः पृथगवभासः प्रत्यक्ष संभवी, प्रकाशविविक्तस्य नीलादेरननुभवात् तद्विवेकेन च बोधस्याप्रतिभासनात् । न चाध्यक्षतो विवेकेनाप्रतीयमानयोर्नील- तत्संविदोर्भेदो युक्तः, विवेकादर्शनस्य भेदविपर्ययाश्रयत्वात् नीलतत्स्वरूपवत् । अथापि कल्पना नील- तत्संविदोर्भेदमुल्लिखति- 'नीलस्यानुभवः' इति; नन्वभेदेऽपि २० मेदोलेखो दृष्टो यथा- 'शिलापुत्रकस्य वपुः' 'नीलस्य वा स्वरूपम्' इति । अथ तत्र प्रत्यक्षारू दोदो बाधक इति न भेदोल्लेखः सत्यः स तर्हि नील-संविदोरपि प्रत्यक्षारूढोऽमेदोऽस्तीति न भेदकल्पना सत्या । तदेवं नीलादिकं सुखादिकं च स्वप्रकाशवपुः प्रतिभातीति स्थितम्, तद्व्यतिरिक्तस्य प्रकाशस्याप्रतिभासनेनाभावात् । १५ भवतु वा व्यतिरिक्तो बोधस्तथापि न तड्राह्या नीलादयो युक्ताः । तथाहि - तुल्यकालो वा २५ बोधस्तेषां प्रकाशकः, भिन्नकालो वा ? तुल्यकालोऽपि परोक्षः, स्वसंविदितो घा ? न तावत् परोक्षः, यतः "अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति” [ ] इत्यादिना स्वसंविदितत्वं ज्ञानस्य प्रसाधयन्त एतत्पक्षं निराकरिष्यामः । नापि ज्ञानान्तरवेद्यः, अनवस्थादिदूषणस्यात्र पक्षे प्रदर्शयिष्यमाणत्वात् । स्वसंवेदनपक्षे तु यथाऽन्तर्निलीनो वोधः स्वसंविदितः प्रतिभाति तथा तत्काले स्वप्रकाशवपुषो नीलादयो बहिर्देश संबन्धितया प्रतिभान्ति इति समानकालयोनल- तत्संवेदनयोः ३० स्वतन्त्रयोः प्रतिभासनात् सव्येतरगोविषाणयोरिव न वेद्यवेदकभावः । समानकालस्यापि बोधस्य नीलं प्रति ग्राहकत्वे नीलस्यापि तं प्रति ग्राहकताप्रसङ्गः । १ पृ० ७९ पं० १७ । २- त्वाद् युक्तमि - भा० । मां विना सर्वत्र । ५- कं वस्तु प्रकाश - हा०, पृ० । स० त० ११ समानकालप्रतिभासाऽविशेषेऽपि बुद्धिनलादीनां ग्रहणमुपरचयतीति ग्राहिका, नीलादयस्तु ग्राह्याः, नैतदपि युक्तम्; यतो नील-बोधव्यतिरिक्ता न ग्रहणक्रिया प्रतिभाति । तथाहि - बोधः सुखास्पदीभूतो हृदि, बहिः स्फुटमुद्भासमानतनुश्च नीलादिराभाति नत्वपरा ग्रहणक्रिया प्रतिभास- ३५ विषयः । तदनवभासे च न तथा व्याप्यमानतया नीलादेः कर्मता युक्ता । भवतु वा नील- बोधव्य तिरिक्ता क्रिया तथापि किं तस्या अपि स्वतः प्रतीतिः, यद्वाऽन्यतः ? तत्र यदि स्वतो ग्रहणक्रिया प्रतिभाति तथा सति बोधः नीलम् ग्रहणक्रिया चेति त्रयं स्वरूप निमग्नमेककालं प्रतिभातीति न कर्तृकर्म - क्रियाव्यवहृतिः । अथान्यतो ग्रहणक्रिया प्रतिभासि; ननु तत्राप्यपरा ग्रहणक्रिया उपेया- अन्यथा तस्या ग्राह्यताऽसिद्धेः पुनस्तत्राप्यपरा कर्मतानिबन्धनं क्रिया उपेयेत्यनवस्था; तन्न ग्रहणक्रियाऽप - ४० राऽस्ति तत्स्वरूपाऽनवभासनात्। ततश्चान्तःसंवेदनम् बहिनलादिकं च स्वप्रकाशमेवेति । ३ पृ० ७९ पं० १७ । ४- नाऽस्या प्रतिपत्तौ ६- पि संप्रति वा०, बा०, मां० विना सर्वत्र ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy