SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। ७९ कथं तस्यादृष्टिः ? न चास्य प्रत्ययस्य बाधारहितस्यापूर्वार्थ विषयस्याक्षजविषयावभासस्येवासन्दि पस्य निश्चितरूपत्वेन प्रतिभासमानस्य स्मृतिरूपता अप्रामाण्यं वा प्रतिपादयितुं युक्तम् । अतोऽस्यामपि प्रतीताववभासमानस्यापरोक्षतैव युक्ता न प्रमाणान्तरगम्यता। यदप्यत्राहुः-{अस्त्ययमवभासः किन्त्वस्य प्रत्यक्षता चिन्त्या । प्रत्यक्षं हीन्द्रियव्यापारजं ज्ञानम् । तथाचोक्तं भवद्भिः-"इन्द्रियाणां सत्संप्रयोगे बुद्धिजन्म प्रत्यक्षम्" [ जैमि० अ०१-१-४] प्रत्य- ५ क्षविषयत्वात् तदर्थस्य प्रत्यक्षता न तु साक्षात् , अनिन्द्रियजन्वेन । तत्र घटादेर्वाह्येन्द्रियज्ञान विषय त्वेन सर्वलोकप्रतीताऽध्यक्षता नत्वेवमात्मनः। अथैवमुच्येत-नात्मनो घटादितुल्या प्रत्यक्षता, घटादेहि इन्द्रियजज्ञानविषयत्वेन सा व्यवस्थाप्यते, न त्वात्मा कस्यचित् प्रमाणस्य विषयः। कथं तर्हि प्रत्यक्षः? न ज्ञानविषयत्वात् प्रत्यक्षः अपि त्वपरोक्षत्वेन प्रतिभासनात् प्रत्यक्ष उच्यतेः तच्च केवलस्य घटादिप्रतीत्यन्तर्गतस्य १० वाऽपरसाधनं प्राक् प्रतिपादितम्, एतदप्यसत्; यतः अपरसाधनमिति कोऽर्थः-किं चिद्रूपस्य सत्ता, आहोस्वित् स्वप्रतीतो व्यापारः ? यदि चिद्रूपस्य सत्तैवात्मप्रकाशनमुच्यते तदा दृष्टान्तो वक्तव्यः। न चात्राऽऽशङ्कनीयम्-अपरोक्षे दृष्टान्तान्वेषणं न कर्त्तव्यम् , यतस्तथाविधे विवादविषये सुप्रसिद्धं दृष्टान्तान्वेषणं दृश्यते । न च दीपादि दृष्टान्तः, तेत्र हि सजातीयालोकानपेक्षत्वेन स्वप्रतीतौ स्वप्रकाशकत्वं व्यवस्थापितं कैश्चित् न त्विन्द्रियाग्राह्यत्वम् । तदग्राह्यत्वे 'स्वप्रकाशाः १५ प्रदीपादयः' इति चक्षुष्मतामिवान्धानामपि तत्प्रतीतिप्रसङ्गः तस्मान्न स्वप्रकाशाः प्रदीपादयः। यत्तु आलोकान्तरनिरपेक्षत्वं तत् कस्यचिद्विपयस्य काचित् सामग्री प्रकाशिका इति नैकत्र दृष्टत्वेनान्यत्रापि प्रसक्तिश्चोद्यते । अथ द्वितीयः पक्षः, सोऽपयुक्तः, अदर्शनादेव-नहि कश्चित् पदार्थः कर्तृरूपः करणरूपो वा स्वात्मनि कर्मणीव सव्यापारो दृष्टः । कथं तानुमेयत्वेऽप्यात्मप्रतीतिः प्रमात्रन्तराभावात् ? एकस्यैव लिङ्गादिकरणमपेक्ष्य(क्ष्या)वस्थाभेदेन मेदे सति अदोषः ।२० ___किंच, प्रमाणाविषयत्वेऽप्यपरोक्षतेत्यस्य भाषितस्य कोऽर्थः ? ज्ञातृतया स्वरूपेणावभासनमिति चेत्, घटादयोऽपि किं पररूपतया प्रतीतिविषयाः? अतो यद् यस्य रूपं तत् प्रमाण वि. षयत्वेऽप्यवसीयते इति न ज्ञानाविषयता प्रमातुः । तथाहि-तस्य ज्ञातृता प्रमातृताऽऽत्मस्वरूपता, घटादेः प्रमेयता शेयता घटादिरूपता; अतो यथा तस्य स्वरूपेणावभासनान्नाऽप्रत्यक्षता तद्वदात्मनोऽपि । अभ्युपगमनीयं चैतत् , अन्यथाऽऽत्मादिस्वसंवेदनस्य प्रत्यक्षस्यापि प्रत्यक्षादिलक्षणव्यति-२५ रिक्तं लक्षणान्तरं वक्तव्यम् । तथा च प्रमाणेयत्ताव्याघातः, केनचित् प्रत्यक्षादिलक्षणेनात्मादिविषयस्य स्वसंवेदनस्यासंग्रहात् । इतोऽप्युक्तं प्रमातृवत् फलेऽपि संवेदनाभ्युपगमप्रसङ्गात् । तथाऽभ्युपगमाददोष इति चेत्, तथा चोक्तम् " "संवित्तिः संवित्तितयैव संवेद्या न संवेद्यतया” [ ] इति । एतत् प्राक् प्रतिक्षिप्तम् , न स्वरूपावभासे प्रमाणाविषयता । किंचे, एवं कल्प्यमाने बोधद्वयमान्तरम् ३० स्वसंविद्रूपं च कल्पितं स्यात्, तथा चायुक्तम् , एकस्मादेव विषयावभाससिद्धेः किं द्वयकल्पनया ? अथोच्येत-कल्पना ह्यनवभासमानस्य, बोधंद्वये तु घटादिवदवभासोऽस्तीति न कल्पना । यदीडशाः प्रतिभासाः प्रमाणन्वेन व्यवस्थाप्यन्ते तदा 'घटमहं चक्षुपा पश्यामि'इति करणप्रतीतिरपि प्रमातृफलप्रतीतिवत् कल्पनीया।। याऽपि कैश्चित् करणप्रतीतिः प्रत्यक्षत्वेनोक्ता साऽपि नातीव संगच्छते । तथाहि-३५ 'घटमहं चक्षुषा पश्यामि'इत्यस्यामवगतौ किं गोलकस्य चक्षुष्ट्वम्, आहोस्वित् तद्व्यति. रिक्तस्य? गोलकस्य चक्षुष्ट न कश्चिदन्धः स्यात् । तद्यतिरिक्तस्य च रश्मेरनभ्युपगमःः अभ्युपगमे वा न प्रतीतिविषयः, केवलं शब्दमात्रमुचारयति घटप्रतीतिकाले। एवं च प्रमातृ-फलविषयं शब्दोच्चारणमात्रमवसीयते, न च तयोः प्रतीतिगोचरता करणस्येव तथाहि-इन्द्रियव्यापारे सति शरीराद् व्यवच्छिन्नस्य विषयस्यैव केवलस्यावभासनमिति न्यायविदः प्रतिपन्नाः । 'किं तस्याव-४० १-यविषय-मा० । २ पृ. ७८ पं० ३४ । ३ तस्य हि मां०। ४-न प्रतीतौ प्रकाश-कां०, गु० । ५ सुप्रकाशाः वा०, बा. विना सर्वत्र । ६-क्षावस्था मां० विना सर्वत्र । ७-ता घटादेशेयता घटा-गु०।८ इतोऽप्ययुक्तम् भा०मा० ब०। ९-नाऽभ्युपगमदोष इति चेत् तथा चोक्तम् बा०, वा०, पू० । १०-णविषयता मा०। ११-चिनैवं वा०, बा० । १२ तथायुक्तमे-वा०, बा०। १३ बोदयहेतुघ-वा०, बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy