SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे अपरे मातापितृशुक्रशोणितविशेषादेव' इति, सोऽपि न सम्यग्; तत्रापि समानजातीय. पूर्वाभ्याससंभवात् ; अन्यथा समानेऽपि रसायनाद्युपयोगे यमलकयोः कस्यचित् क्वापि प्रज्ञामेधादिकमिति प्रति नियमो न स्यात्, रसायनाद्युपयोगस्य साधारणत्वादिति । न च प्रज्ञादीनां जन्मादौ रसायनाभ्यासे च विशेषः, शालूक-गोमयजन्यस्य तु शालूकादेस्तदन्यस्माद विशेषो दृश्यते । ५ क्वचिजातिस्मरणं च दर्शनमिति न युक्ता दृष्ट कारणादेव मातापितृशरीरात् प्रज्ञा-मेधादिकार्य विशे. षोत्पत्तिः । न च गोमय-शालूकादेर्व्यभिचारविषयत्वेन प्रतिपादितस्यात्यन्तवैलक्षण्यम्, रूप-रसगन्ध-स्पर्शवत्पुद्गलपरिणामत्वेन द्वयोरपि अवैलक्षण्यात् । विज्ञान-शरीरयोश्चान्तर्बहिर्मुखाकारविज्ञानग्राह्यतया स्व-परसंवेद्यतया स्वसंवेदन-बाह्यकरणादिजन्यप्रत्ययानुभूयमानतया च परस्परान नुयाय्यनेकविरुद्धधर्माध्यासतोऽत्यन्तवैलक्षण्यस्य प्रतिपादितत्वाद् नोपादानोपादेयभावो युक्तः। १० यस्तु शरीरवृद्ध्यादेश्चैतन्यवृद्ध्यादिलक्षण उपादानोपादेयभावधर्मोपलम्भःप्रतिपाद्यतेऽसौ महा कायस्यापि मातङ्गाऽजगरादेश्चैतन्याल्पत्वेन व्यभिचारीति न तद्भावसाधकः। यस्तु शरीरविकाराच्चैत. न्यविकारोपलम्भलक्षणस्तद्धर्मभावः प्रतिपाद्यतेऽसावपि सात्त्विकसत्त्वानाम् अन्यगतचित्तानां वा छेदादिलक्षणशरीरविकारसद्भावेऽपि तच्चित्तविकारानुपलब्धेरसिद्धः। दृश्यते च सहकारिविशेषादपि जल-भूम्यादिलक्षणाद् बीजोपादानस्याङ्कुरादेविशेष इति सहकारिकारणत्वेऽपि शरीरादे१५विशिष्टाहाराथुर्पयोगादौ यौवनावस्थायां वा शास्त्रादिसंस्कारोपात्तविशेषपूर्वज्ञानोपादानस्य विज्ञा नस्य विवृद्धिलक्षणो विशेषो नासंभवी।। यदप्युक्तम् 'अनादिमातापितृपरम्परायां तथाभूतस्यापि बोधस्य व्यवहितमातापितृगतस्य सद्भावात् ततो वासनाप्रबोधेन युक्त एव प्रज्ञा-मेधादिविशेषस्य संभवः' इति, तदप्ययुक्तम् अनन्तरस्यापि मातापितृपाण्डित्यस्य प्रायः प्रबोधसंभवात् । ततश्चक्षुरादिकरणजनितस्य स्वरू२० पसंवेदनस्य चक्षुरादिज्ञानस्य वा युगपत् क्रमेण चोत्पत्तौ 'मयैवोपलब्धमेतत्' इति प्रत्यभिज्ञानं सन्तानान्तरतदपत्यज्ञानानामपि स्यात्, न च मातापितृज्ञानोपलब्धेस्तदपत्यादेः कस्यचित् प्रत्यभिज्ञानमुपलभ्यते । अनेन 'एकस्माद् ब्रह्मणः प्रजोत्पत्तिः' प्रत्युक्ता, एकप्रभवत्वे हि सर्वप्राणिनां परस्परं प्रत्यभिशाप्रसङ्गः एकसन्तानोद्भूतदर्शन-स्पर्शनप्रत्यययोरिव । यत्तुक्तम् 'आत्मनोऽदृष्टेर्नात्मानमाश्रित्य परलोकः' इति, तदयुक्तम् । तददृष्टय सिद्धेः। तथाहि२५ देहेन्द्रिय-विषयादिव्यतिरिक्तोऽहंप्रत्ययप्रत्यक्षोपलभ्य एवात्मा। न च चक्षुरादेः करणग्रामस्यातीन्द्रियात्मविषयत्वेन ज्ञानजननाव्यापारात् कथं तजन्यप्रत्यक्षज्ञान विषय इति वक्तुं युक्तम्, स्वसंवेदनप्रत्यक्षग्राह्यत्वाभ्युपगमात् । तथाहि-उपसंहृतसकलेन्द्रियव्यापारस्य अन्धकारस्थितस्य च 'अहम्' इति ज्ञानं सर्वप्राणिनामुपजायमानं स्वसंविदितमनुभूयते, तत्र च शरीराद्यनवभासेऽपि तद्यतिरिक्तमात्मस्व रूपं प्रतिभाति । न चैतद् ज्ञानमनुभूयमानमप्य पह्रोतुं शक्यम् , अनुभूयमानस्याप्यपलापे सर्वापलापप्र३०सहात । नाप्येतन्नोत्पद्यते, कादाचित्कत्वविरोधात् ! नापि बाह्येन्द्रियव्यापारप्रभवम्, तद्यापाराभा. वेऽप्युपजायमानत्वात् । नापि शब्द-लिङ्गादिनिमित्तोद्भूतम्, तदभावेऽप्युत्पत्तिदर्शनात् । न चेदं वाध्यत्वेनाप्रमाणम् , तत्र बाधकसद्भावस्यासिद्धेः । न चेदं सविकल्पकत्वेनाप्रमाणम्, सविकल्पकस्यापि ज्ञानस्य प्रमाणत्वेन प्रतिपादयिष्यमाणत्वात् । कदाचिश्च बाह्येन्द्रियव्यापारकालेऽपि यदा 'घटमहं जानामि' इत्येवं विषयमवगच्छति तदा स्वात्मानमपि । तथाहि-तत्र यथा विषयस्याव३५भासः कर्मतया तथाऽऽत्मनोऽप्यवभासः कर्तृतया । न च शरीरादीनां ज्ञातृता, यथा हि शरीराद् का पादयः प्रतीतिकर्मतया प्रतिभान्ति-'मम घटादयः, अहं घटादीनां ज्ञाता' एवं 'मम पारीरादयः अहं शरीरादीनां ज्ञाता' इत्येवं च प्रतीतिकर्मत्वेन घटादिमिस्तल्यत्वान्न शरीरादिसं. घातस्य शातृता । न च शात्रप्रतिभासः, तदप्रतिभासे हि 'ममैते भावाः प्रतिभान्ति नान्यस्य' इत्येवं प्रतिभासो न स्यात् तदवभासापहवे च घटादेरपि कथं प्रतीतिः? इयांस्तु विशेषः-एकस्य प्रती. ४०तिकर्मता अपरस्य तत्प्रतीतिकर्तृता न त्वनवभासः; अतो लिङ्गाद्यनपेक्ष आत्माऽवभासोऽप्यस्तीति १ पृ० ७१ पं० १९। २-तिस्मरणादर्शन-वा० बा०। ३ पृ. ७१ पं० १९ । ४ पृ० ७७ पं०१८ । ५ युक्तः। शरीर-का०, गु० । ६-पयोगाद् यौ-मां० । ७ पृ. ७१ पं० २४ । ८ पृ. ७१ पं० २५। पृ. ७१ पं. २९-३० । १०-यादिवि-मा०। ११-सकलण्यापार-मा० । १२-दास्मानमपि। तत्र गु०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy