________________
[३३७
परिशिष्टम् [३] ऋषिदत्ताकथा ॥]
सद्यो भद्रयशःसूरि-मुद्याने च समागतम् । आकर्ण्य सपरीवारो, नमस्कर्तुं गतो नृपः ॥२२७॥ श्रुत्वा तद्देशनां मोह-नाशिनीमूषिदत्तया । विज्ञप्तः श्रीगुरुर्ज्ञानी, कुद्मलीकृतहस्तया ॥२२८॥ किं मया भगवंश्चक्रे, पूर्वजन्मनि दुःकृतम् । राक्षसीति कलङ्को य-दसद्भूतोऽयमापतत् ॥२२९॥ अथ ज्ञानादृशोवाच, गुरुर्गम्भीरया गिरा । भद्रे ! गङ्गापुरं नाम, पुरमत्रैव भारते ॥२३०॥ गङ्गदत्ताभिधस्तत्र, राजा गङ्गेति तत्प्रिया । गङ्गसेनाख्यया पुत्री, त्वं सुशीलाऽभवस्तयोः ॥२३१॥ तत्र चन्द्रयशा साध्वी, तत्पार्वे भवती पुनः । ज्ञात्वा धर्ममवज्ञासीत् , तृणवद्विषयान् खलान् ॥२३२॥ तदा तु व्रतिनी सङ्गा-ऽभिधा काचित् तपस्यति । तां च स्तौति जनः सर्वः, सदा दुष्करकारिणीम् ॥२३३॥ त्वं तु मत्सरतोऽतुच्छां, तस्याः श्लाघामसासहिः । अभ्याख्यानमिति प्रादा-न्मत्सरे का विवेकता ॥२३४॥ निस्सङ्गा यदियं सङ्गा, दिवसे तप्यते तपः । रात्रौ तु ग्रसते यातु-धानीव मृतकामिषम् ॥२३५॥ सापि प्रशमपीयूष-युता तपति सत्तपः । कर्मबन्धस्ततो वत्से !, त्वयाऽयं समुपायंत ॥२३६॥ अनालोचिततत्कर्म-विपाकेन भवावलीम् । भ्रान्त्वा गङ्गापुरे भूय-स्त्वं राजतनयाऽभवः ॥२३७॥ जिनदीक्षामथादाय, कृत्वा च कपटात् तपः । ईशानेन्द्रकलत्रत्वं, प्राप्ताऽनशनमृत्युना ॥२३८॥ दतश्च्युत्वा हरिषेण-नरेन्द्रस्य सुताऽभवः । प्राचीनकर्मलेशाच्च, कलङ्कोऽयमजायत ॥२३९॥ इत्थं वचनमात्रेण, दुःकर्म यदुपार्जितम् । तस्मान्न छुटति प्राणी, भवान्तरशतैरपि ॥२४०॥ श्रुत्वा वैराग्यकल्पद्रु-नन्दनोर्वीमिमां गिरम् । जातजातिस्मृतिः सापि, तदशेषमबुध्यत ॥२४१॥ ऋषिदत्तापि तत्कर्म-भीता सूरीन् व्यजिज्ञपत् । दत्त मे भगवन्तो द्राक्, दीक्षां संसारतारिणीम् ॥२४२॥ तद्विज्ञाय नरेन्द्रोऽपि, विशेषेण विरागवान् । गुरुमभ्यर्थयामास, दीक्षार्थं रचिताञ्चलिः ॥२४३॥
D:\chandan/new/datta-p/pm5\2nd proof