________________
३३८]
[ऋषिदत्ताचरित्रसंग्रहः ॥ गुरुरप्याह पुण्यार्थे, युज्यते न विलम्बितुम् । अस्मिन्नसारे संसारे, फलं खलु तपःक्रिया ॥२४४॥ अथ सिंहरथं पुत्र-मभिषिच्य निजे पदे । सन्मती दम्पती दीक्षा-माददाते तदन्तिके ॥२४५॥ खड्गधारावदत्युग्रं, चरणाचरणातौ । मायया वर्जितं शुद्धं, चेरतुस्तौ तपोविधिम् ॥२४६॥ इत: शीतलतीर्थेश-जन्मना पावनीकृतम् । श्रीभद्दिलपुरं प्राप्ता-वन्यदा गुरुभिः सह ॥२४७॥ समूलं तत्र निर्मूल्य, कर्मकुझं करेणुवत् । विशुद्धध्यानसन्तत्या, केवलज्ञानमापतुः ॥२४८॥ क्रमेण पर्यस्तसमस्तकर्म-कलङ्कलेशं शशिनः कलेव ।
तत्केवलिद्वन्द्वमनिन्द्यवृत्तं शिवोत्तमाङ्गस्थितिमाप युक्तम् ॥२४९॥ इति श्रीरुद्रपल्लीयगच्छे श्रीसङ्घतिलकसूरिपट्टावतंसश्रीसोमतिलकसूरिविरचितायां
श्रीशीलतरङ्गिण्यां ऋषिदत्ताकथा समाप्ता ॥ श्रीरस्तु ॥
D:\chandan/new/datta-p/pm5\2nd proof