________________
३३६ ]
[ ऋषिदत्ताचरित्रसंग्रहः ॥
पतिव्रते ! जयजये-त्याशीर्वादपुरस्सरम् । पुष्पवृष्टिं तदा चक्रु-स्तन्मूनि त्रिदशव्रजाः ॥ २९०॥ रूपेण रुक्मिणीं दासीं, कुर्वाणां वीक्ष्य तां तदा । प्रशशंसुः कुमारस्य, तस्यां रागाग्रहं जनाः ॥ २११ ॥ कौबेरीपतिरप्येतां, जामातुर्जीवनौषधम् । विलोक्य सहसा हृष्टः, समुद्र इव कौमुदीम् ॥२१२॥ कुमारसहितामेता-मथारोप्य करीश्वरे ।
नीत्वा स्वसौधे स्नानाद्यैः, सच्चकार सगौरवम् ॥२९३॥ विलूननासिकां छिन्न-कर्णयुग्मां नृपस्तदा ।
विडम्ब्य बहुधा देशात्, सुलसां निरवासयत् ॥२१४॥ स्वीयां च पुत्रिकां गाढं, रूक्षाक्षरमतर्जयत् । तत्रैव स्थापितस्तेन, कुमारश्च कियच्चिरम् ॥२१५॥ अन्यदा कुमरोऽवादीत्, सशोक इव वल्लभाम् । त्वत्पदे प्रहितो हन्त ! दुःखमास्ते सुहृन्मम ॥ २१६ ॥ सस्मेरमृषिदत्ताह, मा विषीद दयानिधे ! । मयैव विहितं सर्व-मिदमौषधियोगतः ॥ २१७॥ किन्तु मे तं वरं देहि, तदानीं यः प्रतिश्रुतः । प्रसीद नाथ ! जामिं मे, पश्य मामिव रुक्मिणीम् ॥२१८॥ अहो ! विवेकिनी ! तस्या-मप्यसौ करुणावती । एवमस्त्विति तामाह, कुमारः सुकुमारगीः ॥ २१९॥ इति तद्वचसा हृष्टा, तामाहूय पतिव्रता । भर्त्तुः समक्षं मन्दाक्ष-मनमद् रुक्मिणीं च सा ॥ २२० ॥ सोऽथ श्वसुरमापृच्छ्य, दयिताभ्यां समन्वितः । जगाम स्वपुरं प्रीति - रतिभ्यामिव मन्मथः ॥२२९॥ पित्राऽप्यभ्युद्गतः प्रीत्या, कुमारः प्राविशत् पुरीम् । नारीनेत्रोत्पलश्रेण्या, सपुष्पप्रकरामिव ॥ २२२ ॥ ज्ञातोदन्तो नरेन्द्रोऽथ, स्वापराधेन लञ्जितः । सतीचूडामणि काम - मृषिदत्ताममन्यत ॥२२३॥ निवेश्य कनकरथ - मथ राज्ये जितेन्द्रियः । व्रतं गृहीत्वा श्रीभद्रा-चार्यपार्श्वे शिवं गतः ॥२२४॥ पालयन्नथ कनकरथः पृथ्वीपतिः प्रजाम् । क्रमेण ऋषिदत्तायां, लेभे सिंहरथं सुतम् ॥२२५॥ वातायनस्थितोऽन्येद्यु-ऋषिदत्तान्वितो नृपः । प्राप वैराग्यमालोक्य, घनवृन्दं विनश्वरम् ॥२२६॥
D:\chandan/new/datta-p/pm5\2nd proof