________________
[३३५
परिशिष्टम् [३] ऋषिदत्ताकथा ॥]
स्त्रीमात्रहेतवे किं वा, म्रियन्ते त्वादृशा अपि । किं च यद्वल्लभा सेय-मक्षता तेऽस्ति रत्नभूः ॥१९३॥ मृतस्य वल्लभासङ्ग-वार्तापि खलु दुर्लभा । कुतोऽपि जीवतोऽवश्यं, मिलिष्यत्येव सा तव ॥१९४॥ ऊचे कुमारः शिशुवत् , किं खेलयसि मां मुने ! । न कोऽपि दुःखी जायेत मृता अपि मिलन्ति चेत् ॥१९५॥ मा शङ्किष्ठा महासत्त्व ! सत्त्वेनाऽनेन तेऽधुना । जीविष्यति ध्रुवं सार्या, सत्त्वं चिन्तामणिर्यतः ॥१९६॥ श्रुत्वेति पुनराह स्म, कुमारः स्फारलोचनः । कि मुने ! क्वापि दृष्टा सा, श्रुता वा कथयैकदा ॥१९७॥ ज्ञानेन जाने भो ! येन, मुनयो ज्ञानदृष्टयः । यमधामस्थिता भद्र !, वल्लभा सुखमस्ति ते ॥१९८॥ कथमेतीति पृष्टेन, तेनोक्तं देव ! तत्पदे । धृत्वाऽऽत्मानं प्रहिष्यामि, स्वमित्रार्थे वधू सतीम् ॥१९९॥ स प्रत्याशमथ प्राह, तत्कि मित्र ! विलम्बसे । कात्र मे दक्षिणा देव ! हितमाचरतस्तव ॥२०॥ त्वयाऽऽवर्जितमेवास्ति, पुरापि मम मानसम् । अधुनात्मापि दत्तस्ते, मित्रार्थे किं न दीयते ॥२०१॥ मुनिरूचे विहस्याथ, त्वदात्मास्तु त्वदन्तिके । प्रस्तावे यदहं याचे, न तत्कार्यं त्वयाऽन्यथा ॥२०२॥
ओमित्युक्ते प्रविष्टोऽथ, मुनिर्जवनिकान्तरम् । ततः कुतूहलोत्ताला, मिमेल निखिलापि पुः ॥२०३॥ सतीसत्त्वतपोध्यान-माहात्म्यं जयति क्षितौ । इत्यादिमागधौघेषु , स्तुवत्सु ललितध्वनिम् ॥२०४॥ पुष्पमालाकरैर्देव-दानवैर्कोमनि स्थितैः । विलोक्यमाना साकूतं, मेघाम्भः कर्षकैरिव ॥२०५॥ विस्मृताऽशेषकार्येण, विस्मयोल्लासचेतसा । उत्तानचक्षुषा राज-कुमारेण निरीक्षिता ॥२०६॥ कर्णात् पवित्रिकां दूरी-कृत्य कृत्यविदग्रणीः । वढ्युत्तीर्णा सुवर्णस्य, शलाकेवोद्यतद्युतिः ॥२०७॥ औपपातिकशय्यातो-ऽवतीर्णेव सुराङ्गना । अनर्घ्यभूषणोद्दीप्रा, नीरङ्गीस्थगितानना ॥२०८॥ प्रादुर्भूय प्रसन्नास्या, ऋषिदत्ता महासती । कुमारपादविन्यस्त-दृष्टिः संसदमासदत् ॥२०९॥ कलापकम् ॥
D:\chandan/new/datta-p/pm5\2nd proof