________________
३३४]
[ऋषिदत्ताचरित्रसंग्रहः ॥ ततः सप्तर्षियुक्तोऽपि, ऋषिदत्तामहामुनेः । न्यञ्चत्करो नन्तुमिव, समागाद्यामिनीपतिः ॥१७६॥ कृतसान्ध्यविधी प्रीति-गोष्ठीसुखितमानसौ । निन्यतुस्तौ निशामेक-पल्यङ्कतलशायिनौ ॥१७७॥ क्रमेण प्राप कौबेरी, मुदितस्तत्पतिस्ततः । प्रवेशोत्सवमातेने, पौरोत्तम्भिततोरणम् ॥१७८॥ ज्योतिरादिष्टलग्नेऽथ, समृद्धिजितवासवः । ऋषिदत्तापतिर्जज्ञे, तत्पाणिग्रहणोत्सवी ॥१७९॥ तत्रैवाऽस्थापयद्राजा, कुमारं कतिचिद्दिनान् । अन्यदा रुक्मिणी प्राह, पतिं विस्त्रम्भसम्भृता ॥१८०॥ कीदृशी ऋषिदत्ता सा, स्वामिन्नासीत् तपस्विनी । अहल्येव सुरेन्द्रस्य, या ते चित्तमरञ्जयत् ॥१८१॥ साऽश्रुदृष्टिः कुमारोऽपि, तां जगाद सगद्गदम् । विश्वत्रयस्त्रियो मन्ये, तस्याश्चरणरेणवः ॥१८२॥ भवादृशोऽपि जायन्ते, हहा ! तद्विरहे प्रियाः । क्षारकूप्यपि हर्षाय, नीरसे मरुमण्डले ॥१८३॥ लसत्कोपा ततो गोप-दुहिता निजपौरुषम् । सर्वं सहर्षमाचख्यौ, योगिनीप्रेरणादिकम् ॥१८४॥ ऋषिदत्तामुनिश्छन्नं, तत् श्रुत्वा रुक्मिणीवचः । स्वकलङ्काऽपनोदेन, मुमुदे जानकी यथा ॥१८५॥ इति तगिरमाकर्ण्य, कुमारोऽप्यरुणेक्षणः । दधिभाण्डक्षिप्तमुखी, शुनीमिव ततर्ज ताम् ॥१८६॥ धिक् ! त्वां पापीयसी क्रूरां, धिक् ! त्वां तत्प्राणघातिनीम् । ययाहं पातितो दुःख-जलधौ दुष्टचेतसा ॥१८७॥ भवत्याऽऽत्महितं कर्तुं-कामया दुष्टवामया । लोकद्वयविरुद्धं हा !, चेष्टितं नरकातिथि ! ॥१८८॥ निर्भत्स्येति महादुःख-भाराक्रान्तो निरस्य ताम् । कारयित्वा चितां गेहे, यावदुत्थति भूपभूः ॥१८९॥ तावदभ्येत्य कौबेरी-पतिधृत्वाऽथ तं करे । जनाश्च वारयन्ति स्म, परितः साऽश्रुलोचनाः ॥१९०॥ कस्यापि वचसा यावत् , कुमारो न निवर्त्तते । ऋषिदत्तामुनिस्तावद् , द्रुतमेत्य जगाद तम् ॥१९१॥ कुमार ! जगदाधार !, विस्मृतं तव किं नु तत् । तदानीं भवताऽवाचि, यत्समानयता वनात् ॥१९२॥
D:\chandan/new/datta-p/pm5\2nd proof