________________
[३३३
परिशिष्टम् [३] ऋषिदत्ताकथा ॥]
दध्यौ च निष्फलं नून-मिदं मे क्वास्ति सा प्रिया । अथवेदं वरं चैत्यं, पुरापि प्रियदर्शनम् ॥१५९॥ इत्यादि ध्यायति स्मेर-विस्मयो यावदेषकः । ऋषिदत्तामुनिस्ताव-त्पुष्पाण्यस्मै समर्पयत् ॥१६०॥ प्रियाभ्रमस्पृशा सोऽपि, दृशा पश्यन्नमुं मुदा । पुष्पमालां करात् तस्य, सत्यङ्कारमिवाऽग्रहीत् ॥१६॥ चेतसा चिन्तयामास, मुनिगूढाकृतिस्तदा । प्रतस्थे मत्प्रियो नून-मुद्वोढुमथ रुक्मिणीम् ॥१६२॥ जिनं नत्वा कुमारोऽपि, समादाय सहैव तम् । निजां पटकुटी नीत्वा-ऽऽनर्च वस्त्राऽशनादिभिः ॥१६३॥ पप्रच्छ च कदाऽमुष्मि-स्त्वमायासीर्वने कुतः । तदिदं निजकोदन्तं, निवेदय मुने ! मम ॥१६४॥ कुर्वाण इव दन्तद्यु-ल्लाजैरस्यैव मङ्गलम् । मुनिरप्याख्यदत्रासी-द्धरिषेणो मुनिः पुरा ॥१६५॥ तस्याऽभूदृषिदत्ताख्या, कन्या प्राणैकवल्लभा । तामुद्वाह्य गतः कोऽपि, राजसूनुर्निजं पुरम् ॥१६६॥ प्रविश्य मुनिरप्यग्नौ देवभुवमथाऽऽसदत् । भ्राम भ्रामं भुवमहं, तदैवात्र समागमम् ॥१६७॥ अतिक्रान्तानि वर्षाणि, पञ्च मेऽत्रैव तिष्ठतः । सफलान्यद्य जातानि, कुमार ! तव दर्शनात् ॥१६८॥ कुमारोऽप्याह सानन्दं, मुने ! त्वां पश्यतो मम । दृष्टिर्न तृप्यति स्थूल-स्थलीव जलवृष्टिभिः ॥१६९॥ तेनाप्यूचे भवेद् देव !, कोऽपि कस्यापि हर्षकृत् । रवौ पद्मानि मोदन्ते, शशाङ्के कैरवाणि च ॥१७०॥ सोपरोधमथोवाच, मुनिं हेमरथात्मजः । त्वत्प्रेमशृङ्खलेनैव, बद्धं मेऽस्ति मनोऽधुना ॥१७१॥ ममास्त्यग्रे तु गन्तव्यं, तत्समेहि मया समम् । वलमानस्तु कुर्यास्त्वं, यथा स्वैरमिहाश्रमे ॥१७२॥ अथाह मुनिरत्रार्थे, कर्तव्यो देव ! नाग्रहः । दूषितो राजसंसर्ग, ऋषीणां सर्वथा यतः ॥१७३॥ तं तथाऽभ्यर्थयामास, कुमारः सपरिच्छदः । ऋषिदत्तामुनिर्मेने, सार्द्धमागमनं यथा ॥१७४॥ अथाऽस्ताद्रिशिलाभग्न, इव पक्वफले रवी । तद्रसैरिव सन्ध्याभ्रे, रञ्जिताः सकला दिशः ॥१७५॥
D:\chandan/new/datta-p/pm5\2nd proof