________________
३३२]
[ऋषिदत्ताचरित्रसंग्रहः ॥ पतिव्रताऽन्यदा दध्या-वहमेकाकिनी वने । कथं स्थाता सुखं मार्ग-कर्कन्धुरिव सर्वदा ॥१४२॥ शीलं च योषितामत्र, परलोके च सिद्धिदम् । केनोपायेन तत्याल्य-मम्लानं माल्यवन्मया ॥१४३॥ आ ! ज्ञातं विद्यते तात-दर्शिता परमौषधी । यत्प्रभाववशान्नारी, नररूपत्वमश्नुते ॥१४४॥ कर्णे पवित्रिकां क्षिप्त्वा, तया च पुंस्त्वमाप्य सा । पूजयन्ती जिनं तस्थौ, सुखेन मुनिवेषभाक् ॥१४५॥ संयतात्मा कुमारोऽपि वल्लभाविरहाकुलः । अस्थान्मुषितसर्वस्व, इव राज्येऽपि शून्यधीः ॥१४६॥ सुलसा कृतकृत्या सा, हताशा जितकासिनी । रुक्मिणी तोषयामास, छागहत्येव चण्डिकाम् ॥१४७॥ अथाभिमानी कौबेरी-पतिर्वाचाटशेखरम् । दूतं संप्रेषयामास, तदा हेमरथम्प्रति ॥१४८॥ दूतोऽपि तत्र गत्वाह, रथमईनभूभृतम् । किमत्र कारणं देव !, यन्नागादत्र तेऽङ्गजः ॥१४९॥ तद्देव ! त्वरयोद्वोढुं , रुक्मिणी प्रेषयात्मजम् । यतो विवेकिनः स्वामिन् !, सज्जनं नावजानते ॥१५०॥ ततोदितमादृत्य, नृपः पुत्रं रहोऽवदत् । दृश्यसे वत्स ! विच्छायः, किं शश्वच्छून्यस्तब्धवत् ॥१५१॥ यदिहापतितं कष्टं, पूर्वदुःकर्मनिर्मितम् । तद्विधूय ध्रुवं धीरा, धूर्याः स्युः सर्वकर्मसु ॥१५२॥ तत्त्वं मदुपरोधेन, कौबेरीपतिनन्दिनीम् । परिणेतुं प्रयाणेन, वत्स ! प्रीणय मन्मनः ॥१५३॥ पितुराज्ञामवज्ञातु-मनभिज्ञतया च सः । चचाल सैन्यभारेण, कम्पयन् पृथिवीतलम् ॥१५४॥ तत्तपोवनमासाद्य, क्रमेण कुमराग्रणीः । ऋषिदत्तामनुस्मृत्य, विषादादित्यचिन्तयत् ॥१५५॥ तद्वनं तदिदं चैत्यं, तत्सरस्तेऽथ पादपाः । यत्राहं स्नेहपूर्णस्तां, पर्यणैषं सुलोचनाम् ॥१५६॥ ममाद्य तदिदं सर्वं, तां विनाऽजनि दुःखदम् । अव्यवस्थस्वभावेन, हा ! किं धातस्त्वया कृतम् ॥१५७॥ शोचन्निति जगामायं, श्रीमन्नाभेयमन्दिरम् । पुस्फोर दक्षिणं चक्षु-स्तदाऽस्य प्रियसूचकम् ॥१५८॥
D:\chandan/new/datta-p/pm5\2nd proof