________________
[३३१
परिशिष्टम् [३] ऋषिदत्ताकथा ॥]
अथ दण्डसमालम्बि-सूर्पखण्डातपत्रिणीम् । लुप्तकेशशिखोपान्त-बद्धश्रीफलमालिकाम् ॥१२५॥ लम्बमानाऽरिष्टपत्र-स्त्रगालिङ्गितकन्धराम् । मषीलिप्तमुखां चूर्ण-चित्राङ्गीं खरवाहिनीम् ॥१२६॥ पुरस्ताद्वाद्यमानोरु-काहलाशृङ्गडिण्डिमाम् । तां सती भ्रामयामासुः, पुरान्तर्दण्डपाशिकाः ॥१२७॥ कुलकम् ॥ पौराहारवैः कैश्चि-दन्यैर्बुम्बारवोद्धरैः ।। विलोक्यमानां तां निन्यु-दृष्टाः पितृवनावलीम् ॥१२८॥ वारुणीसङ्गतः क्लीब, इव मुक्ताम्बरे रवौ । पतिते जलधौ ध्वान्तः, खलैरिव वितस्तरे ॥१२९॥ एकस्तेषु घृणामुक्तः, स्मर क्रूरे ! स्वदैवतम् । ब्रुवन्नित्यसिना यावत् , प्राहरत्तां सती प्रति ॥१३०॥ तावद्भयभवाऽतुच्छ-मूर्छया पतितां क्षितौ । मत्वा मृतामिति त्यक्त्वा, सत्वरं स्वगृहं ययुः ॥१३१॥ बोधिता पवनैः शीतैः, दृष्ट्वा शून्यं तदास्पदम् । साऽनेशद्वागुरामुक्त-मृगीनाशं चलेक्षणा ॥१३२॥ बिभ्यतीतस्ततो वीक्ष्य, विजनं प्रातरङ्गना । रुरोद रोदसीकुक्षि, पूरयन्ती प्रतिस्वनैः ॥१३३॥ हा ! तात ! चेत् तदानीं त्वां, नाऽमुञ्चं हन्त दुर्मतिः । अभविष्यं कथङ्कार, तदेतद्दुःखभाजनम् ॥१३४॥ यत्कृतं दुःकृतं कर्म, भवता पूर्वजन्मनि । रे ! जीव ! तद्विपाकेन, कलङ्कोऽयं तवाऽभवत् ॥१३५॥ हा ! भर्त्तर्दुःखगर्त्तान्तः-पतितां वृद्धगामिव । पाहि साहसधीर ! स्वां वल्लभां प्रियवत्सल ! ॥१३६॥ विलप्येति तनूकृत्य, शोकं सा दक्षिणोन्मुखी । चचाल मन्दचारेण, पितुराश्रमसम्मुखम् ॥१३७॥ स्वहस्तोप्ततरुश्रेणी-दर्शिताध्वा तपोवनम् । पितुर्जगाम दर्भान-पाट्यमानपदा सती ॥१३८॥ स्मशानं पितुरालोक्य, स्मृत्वा स्नेहं रुरोद च । हा ! तात ! क्वासि दुःखिन्या, देहि मे निजदर्शनम् ॥१३९॥ पुरा पुरमिवेदं मे, पितुरासीत् तपोवनम् । साम्प्रतं दुःखदग्धाया, जातं तद्दहनोपमम् ॥१४०॥ अथ सा मानसे शोकं, स्तोकीकृत्य तदैव च । तपस्विनीव तत्राऽस्थात् , कन्दमूलफलाहतिः ॥१४१॥
D:\chandan/new/datta-p/pm5\2nd proof