________________
३३०]
[ऋषिदत्ताचरित्रसंग्रहः ॥ तत्तेषां भवती गत्वा, निरागस्त्वं निवेदयेः ।। पीते पयसि मार्जार्या, किं ताड्यः सैरिभाकः ॥१०८॥ वनाहृताया राक्षस्या, वध्वा एव नरेशितुः । इदं च चेष्टितं ज्ञेय-मित्यादिश्य तिरोऽभवत् ॥१०९॥ यदि चास्मिन्नसम्भाव्ये, संशयेत्पृथिवीपतिः । तदद्य कौतुकमिदं, स्वयमेव विभाव्यताम् ॥११०॥ ततो विसृज्य तां राजा, तस्यां निशि निजान्तिके । स्वीयमशाययत् पुत्रं, चरांश्चोप वधूं न्यधात् ॥१११॥ दध्यौ कुमारोऽनुन्मील-न्निद्रमुन्मुद्रिताऽरतिः । अद्य मद्वल्लभादोषो, ध्रुवमाविर्भविष्यति ॥११२॥ एकतो जनकादेशो-ऽनुल्लद्ध्योऽयं ममापतत् । अन्यतश्च प्रियादुःखं, तदिदं सङ्कटं महत् ॥११३॥ इतश्च सुलसा चित्तकालुष्यात् तत्तथाऽकरोत् । चरैः प्रातस्तथाभूतां, वधूं राजा ददर्श च ॥११४॥ अथ निर्भर्त्सयामास, सुतं कोपपरो नृपः । जानन्नपि प्रियां जातु-धानी धाम्नि दधासि रे ! ॥११५॥ रे ! रे ! क्रूर ! दुराचार ! मुञ्चाग्रं राक्षसीपते ! । त्वया कुन्देन्दुसंकाशं, कलङ्कितमिदं कुलम् ॥११६॥ नत्वा प्राह कुमारोऽपि, तस्यामिदमसम्भवि । मा कुपः किन्तु दुष्टस्य, कृत्यं जानीहि कस्यचित् ॥११७॥ कोपाटोपस्फटाभीमो, भूभुजङ्गोऽब्रवीत् पुनः । यदि प्रत्येषि नो मूढ !, तदा गत्वा विलोकय ॥११८॥ कुमारोऽपि नृपादेशा-न्मन्दीभूतमुखच्छविः ।। गत्वा म्लानमुखीं भार्यां, दृष्ट्वा मधुरमब्रवीत् ॥११९॥ कर्मण्युपस्थिते प्राच्ये, सुवाणि ! करवाणि किम् । त्वामाह राक्षसी काचिद् , योगिनी नृपतेः पुरः ॥१२०॥ स्वयं च तादृशीं प्रात-रद्य त्वां दृष्टवांश्चरैः ।। न जाने किमतः कर्म-वशतस्ते भविष्यति ॥१२१॥ अथो महीपतिर्दूरं, मत्सरच्छन्नमानसः । निहन्तुं वधकेभ्यस्तां, केशैराकृष्य दत्तवान् ॥१२२॥ आदिदेश च दुष्टैषा, भ्रामं भ्रामं पुरेऽखिले । नीत्वा पितृवने मार्या, भवद्भिर्दुष्टराक्षसी ॥१२३॥ नृपात्मजोऽपि तहुःखा-निर्मिमाणः स्वघातिताम् । नियन्त्र्य स्थापितः पित्रा, गलद्बाष्पविलोचनः ॥१२४॥
D:\chandan/new/datta-p/pm5\2nd proof