________________
३२८]
[ऋषिदत्ताचरित्रसंग्रहः ॥ ततो विलुठ्य भूपीठे, रुदन्तीं पितृदुःखतः । वल्लभां बोधयामास, कुमारोऽमृतमञ्जुगीः ॥७४॥ प्रतस्थे नृपपुत्रोऽसौ, यामुद्वोढुं पुरा पुरात् । तां विधूय तया सार्द्ध, व्यावृत्तः स्वगृहं प्रति ॥७५॥ हरिवर्षसमानीत-बीजेन मुनिकन्यका । उवाप पथि वृक्षाली, सर्वर्तुफलशालिनीम् ॥७६॥ दिनैः कतिपयैरेवं, पित्रा क्लृप्तागमोत्सवः । प्रविवेश विशालाक्षो, रथमईनपत्तनम् ॥७७॥ पतिमान्या सदाचारा, विनयप्रमुखेर्गुणैः । चेतांस्यावर्जयामास, सर्वेषामषिनन्दिनी ॥७८॥ यौवराज्यमथाऽवाप्य, दोगुन्दक इवामरः । अभुङ्क्त विषयान् द्वैधं, कुमारो विदुराशयः ॥७९॥ श्रीकौबेर्यामथाऽश्रावि राज्ञा सुन्दरपाणिना । व्यावर्त्तत कुमारो यत् , परिणीय ऋषेः सुताम् ॥८॥ रुक्मिण्यपि तदाकर्ण्य, यौवनोन्माददुर्मदा । उपायांश्चिन्तयामास, वृषस्यन्ती नृपाङ्गजे ॥८१॥ तयाथ मन्त्रतन्त्रज्ञा, कूटकोटिपटीयसी । पापिनी योगिनी काचि-दर्थिता सुलसाभिधा ॥८२॥ कलङ्कमृषिदत्तायै, देहि मह्यं च तं पतिम् । साप्यङ्गीकृत्य तद्वाक्यं, प्राप्ता श्रीरथमईनम् ॥८३॥ सर्पिणीव द्विजिह्वा सा, राक्षसीव दुराशया । महान्धकारमासाद्य, सुलसाऽनलसाशया ॥८४॥ दत्त्वाऽवस्वापिनीं तत्र, निहत्यैकं च मानवम् । कुमारमन्दिरेऽभ्यागाद् , दुष्टवृत्तिरिवाङ्गिनी ॥८५॥ वक्त्राब्जमृषिदत्तायाः, सुप्तायाः पत्युरन्तिके । शोणितेनाऽरुणं चक्रे, धिग् ! दुष्टाया दुरात्मताम् ॥८६॥ तस्याश्चोच्छीर्षके न्यस्य, मांसपिण्डकरण्डिकाम् । संहृत्य स्वापिनी राज-पुत्रसौधात् पलायित्वा ॥८७॥ प्रातविपन्नमालोक्य, नरं तस्य परिच्छदः । चक्रे कोलाहलं तेन, कुमारोऽपि व्यबुधत ॥८८॥ ज्ञातोदन्तस्तदा वीक्ष्य, प्रियां रक्तारुणाननाम् । मांसपिण्डोपधानां च, चित्ते शङ्कामिति व्यधात् ॥८९॥ परासुः श्रूयते कश्चि-दीदृगेषापि दृश्यते । हहा ! किं राक्षसी प्राण-वल्लभा मम सम्भवेत् ॥१०॥
D:\chandan/new/datta-p/pm5\2nd proof