________________
परिशिष्टम् [ ३ ] ऋषिदत्ताकथा ॥ ]
ततो विलक्षतां प्राप्तौ तौ विक्रीताऽवशेषवत् । इतस्ततश्चिक्षिपतु-र्दम्पती चपले दृशौ ॥५७॥ शीर्णपर्णं द्रुमं त्यक्त्वा, विहङ्गममिवाश्रमम् । यान्तं मन्दपदं वृद्धं मुनिमेकमथैक्षत ॥५८॥ हरिषेणमुनिर्गत्वा, प्राञ्जलिस्तमवोचत । ममाख्याहि कुतो हेतोः, शून्यमेतत्तपोवनम् ॥५९॥ तेनोक्तं युवयोर्वत्स !, दृष्ट्वेदं कर्म गर्हितम् । कुष्ठिसङ्गमिव त्यक्त्वा, सर्वैर्जग्मे वनान्तरे ॥६०॥ इत्याख्याय मुनिः शीघ्रं, जगाम यथेप्सितम् । हरिषेणो विषण्णात्मा, पुनराप निजोटजम् ॥ ६१॥ निन्दन्तौ दम्पती कर्म, निजं यतिरिव श्रियम् । अतीयतुश्चतुर्मासीम्, तौ वत्सरशतोपमाम् ॥६२॥ अथ पूर्णेऽवधौ प्रीति-मती प्रसुषुवे सुताम् । कल्पवल्लिरिवाऽभीष्ट फलदायकसंपदम् ॥६३॥ ऋषिप्रसादात् प्राप्तेय - मिति तत्पितरौ तदा । चक्राते ऋषिदत्तेति, नामधेयं सदन्वयम् ॥६४॥ तन्मातरि यमातिथ्यं प्राप्तायां सूतिरोगतः । पालयित्वा पिताऽकार्षी-दष्टवर्षामिमां ततः ॥ ६५ ॥ इमां रूपवतीं मा स्मो-पद्रवन्तु वनेचराः । पितेत्यदृश्यताहेतु, चकाराऽस्या हगञ्जनम् ॥६६॥ सोऽहं कुमार ! दाक्षिण्य - सारः सेयं च कन्यका । अलक्षिता वनेऽमुष्मि- स्तवैवाऽदत्त दर्शनम् ॥६७॥ परस्परस्य पश्यन्ता- वृषिदत्तानृपाङ्गजौ ।
अन्योऽन्यं दत्तवन्तौ तौ स्वात्मानं स्निग्धया दृशा ॥ ६८ ॥
विभाव्याऽथ तयोर्भावं मुनिः कुमारमभ्यधात् । आतिथेयमियं कन्या, तुभ्यं योग्याय जायताम् ॥६९॥ प्रतिपद्य कुमारोऽपि तथेति सुकुमारगीः ।
सोत्सवं तामुपायंस्त दक्षजामिव शङ्करः ॥७०॥ दिनानि कतिचित्तत्र, तया सार्द्धं नवोढया । मालत्यामिव रोलम्बः, सुखं तस्थौ नृपात्मजः ॥७१॥ जाता कुमारसंसर्गात् सा मुग्धापि विचक्षणा । पाटलावासिता मृत्सा, सौरभ्यं किमु नाश्नुते ॥ ७२ ॥ आपृच्छ्य स्वसुताजामा - तरौ वैराग्यतत्परः । विवेशाग्नि मुनिः पञ्च परमेष्ठिस्तुतिं स्मरन् ॥७३॥
D:\chandan/new/datta-p/pm5\2nd proof
[ ३२७