________________
३२६ ]
ज्ञात्वेति भूभृदुत्थाय, सान्त्वयामास वाहिनीम् । तस्थौ च मासमेकं स, तत्रैवाराधयन्मुनीम् ॥४०॥ तेनेदं कारायञ्चक्रे, पुण्यपाथोधिचन्द्रमाः । श्रीनाभेयजिनेन्द्रस्य, चैत्यमुद्दामतोरणम् ॥४१॥ अथ निजपुरी भूमि-भुजे स्वैरं यियासवे । ददौ कुलपतिस्तस्मै, मन्त्रमेकं विषापहम् ॥४२॥ राज्यं पालयतस्तस्या - ऽन्यदासीनस्य पर्षदि । राज्यदौवारिकः कश्चित् तमुपेत्य व्यजिज्ञपत् ॥४३॥ देवास्ति नगरी स्वस्ति-मती श्रीमङ्गलावती । तां शशास महौजस्कः, क्षोणीन्द्रः प्रियदर्शनः ॥४४॥ तस्य विद्युत्प्रभा जाया, यथा विद्युत्तडित्वतः । तत्कुक्षिजा प्रीतिमती, पुत्री गुणपवित्रिता ॥४५॥ दष्टा दुष्टाऽहिना साद्य, तव ज्ञापयितुं ततः । प्रैषीदस्मान् द्रुतं श्रीमान्, प्रियदर्शनभूधनः ॥४६॥ वेगिभिः करभैस्तत्र, ततो गत्वोपकारधीः । चकार निर्विषां राज- तनयां वैनतेयवत् ॥४७॥ तामेव दत्तां तत्पित्रा, परिणीय धराधवः । आगान्निजपुरी पौर- बद्धवन्दनमालिकाम् ॥४८॥ कियत्यपि गते काले, यौवनस्थं तदात्मजं । निवेश्य राज्ये भेजाते, दम्पती तापसव्रतम् ॥४९॥ विश्वभूत्यभिधानस्य, पादोपान्ते तपस्विनः । तावारराधतू राधा- वेधसब्रह्मकं व्रतम् ॥५०॥ अथास्याः पञ्चमे मासे, प्रीतिमत्यास्त्रपाकरः । स्त्रीमन्त्र इव तत्कालं, गर्भः प्रादुरभून्मनाक् ॥५१॥ अथो सहचरी राजा, पप्रच्छावनताननः । किं ते विलोक्यते भद्रे - ऽनुचितं कुलशीलयोः ॥५२॥ तयोचे पूर्वमेवासी - तपस्यायाः परं मया । नोपालक्षि क्षणं लेखा, चन्द्रस्येवाभ्रमध्यगा ॥५३॥ आवामहस्थौ धिक्कार्यौ, भविष्यावस्तपस्विषु । प्रातरन्यत्र गन्तव्यं, चिन्तयित्वेति दम्पती ॥५४॥ कपोलपालीनिद्रालु - वामहस्तौ विहस्तितौ । चिन्ताचान्ततमस्वान्तौ, निन्यतुस्तां निशामिमौ ॥ ५५ ॥ दुष्टव्यन्तरनिर्मूलो-न्मूलितागारिगेहवत् । प्रातस्तपस्विभिः शून्यं, तमाश्रममपश्यतां ॥५६॥
D:\chandan/new/datta-p/pm5\2nd proof
[ ऋषिदत्ताचरित्रसंग्रहः ॥
"