________________
परिशिष्टम् [ ३ ] ऋषिदत्ताकथा ॥ ]
ज्योत्स्नयेव शशी तावत्, तया बालिकया युतः । तत्र स्फारजटाभारो, वृद्धो मुनिरुपागमत् ॥२३॥ इन्द्रोऽसौ किमु वा चन्द्रः, साक्षादथ मनोभवः । निध्यायन्ती राजसूनु - मिति दध्यौ मुनेः सुता ॥ २४॥ कुमारोऽपि नमस्कृत्य, जिनं विस्मितमानसः । नमश्चक्रे मुनिं सोऽपि, चिरं जीवेत्यथाशिषत् ॥ २५ ॥ पप्रच्छ च कुलं किं नाम चाख्याहि मत्पुरः । मागधोऽथ कुमारस्य, सर्वमस्मै न्यवेदयत् ॥२६॥ कुमारोऽपि दृशौ कन्या - मुखचन्द्रे चकोरवत् । मुनिमाह कनी केयं, किं चैत्यं को भवानिह ॥२७॥ मुनिरूचे ततो वत्स !, महतीयं कथानिका । पूजां कृत्वा यावदेमि, तावत्तिष्ठ त्वमत्र भोः ॥ २८ ॥ तथेत्युक्त्वा समासीने, कुमारे मण्डपान्तरे । तया सह प्रविश्यान्त - र्देवपूजां व्यधान्मुनिः ॥२९॥ कुमारस्तां कुमारी तं, वलितग्रीवमुत्सुकम् । धवलैर्लोचनैर्लोलै-रीक्षाञ्चक्रे मुहुर्मुहुः ॥३०॥ विहारस्योत्तरेणाथ, मुनिर्नीत्वा निजोटजे । कुमारमर्घपाद्याद्यै-रचित्वा चेत्थमाख्यत ॥३१॥ वत्सास्ते नगरी रम्या, सञ्ज्ञिता मन्त्रितावती । पालयामास तां श्रीमान्, हरिषेणो धराधवः ॥३२॥ तस्य चाऽभूद्यथार्थाख्या, वल्लभा प्रियदर्शना । अभूदजितसेनाख्यः, पुत्रस्तत्कुक्षिसम्भवः ॥३३॥ वाहालीतोऽन्यदा भूमि- जानि शूकलवाजिना । आनिन्ये काननावन्या - ममुष्यामपहृत्य सः ॥३४॥ अतिदक्षतया प्लक्ष - प्रालम्बं प्रावलम्ब्य सः । गच्छतोऽपि द्रुतं वाहाद्, वनमेतदवातरत् ॥३५॥ पुरस्सरेऽत्र कासारे, प्रक्षालितमुखो नृपः । ननाम तापसं विश्व-भूतिनामकमुच्चकैः ॥ ३६ ॥ सोऽपि कच्छमहाकच्छ - वंशकेतुर्महामुनिः । श्रिये जिनस्ते नाभेय, इत्याशिषमवोचत ॥३७॥ अन्योऽन्यं कुशलोदन्तं, यावत्तावूचतुः सुखम् । तावदाविर्बभूवेह, वने सांराविणं महत् ॥३८॥ किमेतदिति साकूत-मूचुराश्रमवासिनः । ममानुपदमार्गेण, नूनं मत्सैन्यमागमत् ॥३९॥
D:\chandan/new/datta-p/pm5\2nd proof
[ ३२५