________________
३२४]
[ ऋषिदत्ताचरित्रसंग्रहः ॥
,
अपांसुलाललामेव, वासुला तस्य वल्लभा । मेरुरिव सासूत, रुक्मिणीं कल्पवल्लरीम् ॥६॥ अथ यौवनमारूढां, तां ज्ञात्वा योग्यसङ्गमात् । अदत्त कनकरथ कुमाराय नरेश्वरः ॥७॥ तामुद्वोढुमथाऽचालीत् कुमारः पितुराज्ञया । कुर्वाणः पथि सीमाल-भूपान् स्वाज्ञावशंवदान् ॥८॥ असूर्यम्पश्यां भूपाल - वल्लभामिव स क्रमात् । प्रापदेकामरण्यानीं, छन्नामुन्नतपादपैः ॥९॥ अथ पाथोदिदृक्षायै, प्राक्प्रस्थापितसेवकाः । कुमारमूचुरागत्य, समासीनं तरोस्तले ॥१०॥ देव ! युष्माकमादेशाद्, दूरभूमिं गता वयम् । क्षमामुखमिवाऽद्राक्ष्मः, सरः पङ्कजसङ्कुलम् ॥११॥ यावद् व्रजामस्तत्तीरं, तावत्तत्र वनाश्रमे । अपश्यामः कनीं काञ्चिद्, दोलाखेलनलालसाम् ॥१२॥ सहसाऽस्मानथालोक्य, सापि दूरं पलायिता । अलक्षिता खेचरीव, तरुपाल्यामलीयत ॥१३॥ गवेषितापि ह्यस्माभिः, कानने सा शुभानना । नैवाऽदर्शि पुनश्चित्र-वल्लरीव दरिद्रिभिः ॥१४॥ तदाकर्ण्य कुमारोऽपि, शिखीव घनगर्जितम् । प्रहृष्टः सह तैरेवा - ऽचलत् तद्दर्शिताध्वना ॥१५॥ प्राप्तश्चतवनं लीन - स्तदन्तश्च कुरङ्गवत् । कुमारो विस्मयस्मेर - स्तरलाक्षीं ददर्श ताम् ॥ १६ ॥ मुनिशापपरिभ्रष्टा, नूनमेषा सुराङ्गना । मरौ कल्पलतेवेदृक्, स्त्रीरत्नं भूतले कुतः ॥ १७॥ इत्थं तद्रूपमूढात्मा, यावदास्ते नृपाङ्गभूः । तावदाकर्ण्य सा सैन्य - तुमुलं प्रपलायिता ॥ १८ ॥ सैन्यमावास्य तत्रैव, सरस्तीरे द्रुमालिषु । कुमारोऽपि स्मरावेश- परो बभ्राम तद्वनम् ॥१९॥ तामपश्यन् गतो दूरं, कुमारस्तरलाशयः । चैत्यमेकमथैक्षिष्ट, पुरस्तात् तुङ्गतोरणम् ॥२०॥ नूनमस्मिन् कुरङ्गाक्षी, सापि रम्या भविष्यति । ध्यात्वेति नृपतेः सूनुः, प्रविवेश तदन्तरे ॥२१॥ नाभेयप्रतिमां तत्र, धन्यम्मन्यो विलोक्य सः । अचिन्तितफलं वन्य- पुष्यैर्यावदपूजयत् ॥२२॥
D:\chandan/new/datta-p/pm5\2nd proof