________________
परिशिष्टम्
[२] श्रीआम्रदेवसूरिविरचिताख्यानकमणिकोशवृत्तौ भावशल्यानालोचनदोषाधिकारे
ऋषिदत्ताख्यानकम् ॥
अस्य च धर्मस्य सम्यग् ग्रहणेऽप्यनाभोगादिना मालिन्यसम्भवेऽपि सम्यग् गुरोरालोचनीयम् असम्यगालोचने दोष इत्येतदभिधातुकाम आह
जो सम्मं नालोयइ नियसल्लं सो हु पावइ अणत्थं ।।
जइ माइ-सुया मरुओ रिसिदत्ता मच्छमल्लो य ॥१ व्याख्या-य:'-कश्चिद् विवेकविकलः 'सम्यग्' यथावद् 'नालोचयति' न गुरुभ्यः कथयति 'निजशल्यं' स्वदुश्चरितं 'सः' प्राणी 'प्राप्नोति' लभते 'अनर्थं' व्यसनम् । दृष्टान्तानाह-'यथा' इत्युदाहरणोपन्यासे । 'मातृ-सुतौ' जननी-पुत्रौ 'मरुकः' ब्राह्मण: 'ऋषिदत्ता' तापसकन्या 'मत्स्य (मक्षिका) मल्लः' राजमल्ल इति गाथासमासार्थः ॥ व्यासार्थस्त्वाख्यानकैः कथयति । तानि चामूनि। अधुना ऋषिदत्ताख्यानकमाख्यायते । तच्चेदम् -
अस्थि अदिट्ठोवद्दवधण-धन्नसमिद्धगामरमणीओ। निस्सेसदेसअवयंससन्निभो मज्झदेसो त्ति ॥१॥ तत्थऽत्थि विलसिररहं रहंगकयसोहसरवराइन्नं । अद्दिटुसयणविरहं रहमद्दणनाम नयरं ति ॥२॥ जिणमंदिराई डिंडीरपिंडपरिपंडुराई रम्माइं। जसपडलाइं व तस्सामियाण रेहंति जम्मि सया ॥३॥ जम्मि य मुणिणो परिमुणियसमयसब्भावसुंदरसहावा । विहरंति पायफरिसणपवित्तियासेसधरणियला ॥४॥
१. आचार्यश्रीनेमिचन्द्रसूरिविरचिताख्यानकमणिकोशे-गाथा/३८ ।