________________
[२६५
ऋषिदत्ताचरित्रम् ॥]
अथोवाच स तां साचीकृतप्राचीनकल्मषः । प्रतिबोधसुधावृष्टिपुष्करावर्तको गुरुः ॥४२१।। $$ अस्तीह भारते भद्रे ! परं गङ्गापुरं पुरम् ।
अभूद् भूमीपतिर्गङ्गदत्तस्तत्रातिविक्रमी ॥४२२।। त्वमासीस्तस्य तनया गङ्गाकुक्षिसमुद्भवा । गङ्गसेनेति नि:सीमशीलपालनपण्डिता ॥४२३।। तत्रैवासीत् पुरे चन्द्रयशा: साध्वी तदन्तिके । मतं तीर्थकृतामाप भवती भवतीरदम् ॥४२४।। ततः कृतरतिस्तत्र जगदेकसहोदरे । विषयांस्त्वमवाज्ञासीरखिलान् खलसंनिभान् ॥४२५।। तदा तु चन्द्रयशसः प्रवर्त्तिन्याः पदान्तिके । निःसङ्गा यतिनी सङ्गाभिधा काचित् तपस्यति ॥४२६।। नमस्यति जनः स्तौति तपस्यन्तीमुदीक्ष्य ताम् । नान्यदस्ति सदाचारादपरं यशसे यतः ॥४२७॥ तत्प्रशंसामतीव त्वं सहसे न तदा शुभे ! । स्यादेवैकगुणानां हि मत्सरच्छुरितं मनः ॥४२८॥ तस्याः श्लाघाविपर्यासमिच्छन्ती भवती ततः । अभ्याख्यानमितिप्रौढमदासीदूढमत्सरा ॥४२९।। यदियं दम्भिनी सङ्गा तपस्यति दिवा तपः । राक्षसीव पुना रात्रौ ग्रसते मृतकामिषम् ॥४३०॥ अभ्याख्यानमिदं साक्षात् प्रशमामृतदीर्घिका । तितिक्षामास सा सङ्गा भवभङ्गाभिधाविता ॥४३१।। वत्से ! तुच्छस्त्वया कर्मबन्धः शर्मनिषूदनः । उपार्जितः पुनर्मिथ्यादुष्कृतादानतस्ततः ॥४३२।। तद्विपाकवशाद् भ्रान्त्वा भवं बहु मुहुर्मुहुः । कर्मशेषे पुनर्गङ्गापुरे राजसुताऽभवः ॥४३३।।
१. मति वि०।
D:\amarata.pm5\3rd proof