SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २६६] [ऋषिदत्ताचरित्रसंग्रहः ॥ ततः प्राप्तजिनाधीशमुनिव्रतविराजिता । अकार्षीः कपटाटोपसंकटं विकटं तपः ॥४३४।। पर्यन्ते तदनालोच्य दुष्कर्म कपटोद्भवम् । मृत्वाऽनशनतः प्राप ईशानेन्द्रकलत्रताम् ॥४३५।। ततश्च्युत्वा च भवती हरिषेणमहीपतेः । सुता प्रीतिमतीकुक्षिभवाऽभूदाश्रमावनौ ॥४३६।। $प्राचीनकर्मपरमाणुमहोदयेन, भद्रे ! तवाभवदयं विपुलः कलङ्कः । दुष्कर्म मर्मभिदुरं हि दुरन्तमेव, न क्षीयते भवशतैरपि देहभाजाम् ॥४३७॥[व.ति.] इति श्रुत्वा गुरोर्वाणी वैराग्यद्रुमसारणीम् । 10 सापि जातिस्मृतिज्ञानचक्षुषा सर्वमैक्षत ॥४३८।। तदा किञ्च तदाकर्ण्य भूपालोऽपि विशेषतः । विरागितमनाः साक्षाद् गुरुं दीक्षामयाचत ॥४३९।। ऋषिदत्तापि वैराग्यवती गुरुमजिज्ञपत् । एतदेव पुराकर्मभयात्तपृथुवेपथुः ॥४४०॥ उवाच गुरुरप्येतद् विलम्बोऽत्र न युज्यते । असारेऽमुत्र संसारे सारेयं हि तपःक्रिया ॥४४१॥ अथ तौ दम्पती सिंहरथनामानमङ्गजम् । कृत्वा राजपदे दीक्षामाददाते तदन्तिके ॥४४२।। तौ गृहीतव्रतौ खड्गधाराचङ्क्रमणोपमम् । 20 चक्रतुादशविधं तपः कपटवजितम् ॥४४३।। अन्यदा जग्मतुः साकं गुरुभिर्भद्रिलापुरम् । पुरं शीतलतीर्थेशजन्मना पावनीकृतम् ॥४४४।। तपोहुताशे किल कर्मजालं, पलालपूलप्रतिमं विधाय । अवापतुस्तत्र पुरे गरीयः सत्केवलज्ञानमयं महस्तौ ॥४४५।। [उपजाति] 25 गतवति विततायु:कर्मणि प्रान्तमन्तःकरणशरणवैरिध्वंसनादात्तकीर्तिः । अथ पृथु मथितापत् केवलिद्वन्द्वमेतत् परमपदमुदारानन्दसंदोहमूहे ॥४४६।। [मा.] इति ऋषिदत्ताकथासमाप्तः श्री ॥ D:\amarata.pm513rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy