________________
5
10
15
20
25
२६४]
[ ऋषिदत्ताचरित्रसंग्रहः ॥
अथ न्यायेन कनकरथः शासन् वसुन्धराम् । अवाप ऋषिदत्तायां नाम्ना सिंहरथं सुतम् ॥४०८|| SS ऋषिदत्तान्वितः क्षोणीपतिर्वातायनस्थितः । अद्राक्षीदन्तरिक्षेऽम्बुवाहमण्डलमन्यदा ||४०९|| प्रचण्डपवनस्तच्च तत्क्षणादेव दैवतः । सिद्धं कार्यमिवानार्यः प्रापयद् विशरारुताम् ॥४१०॥ मिलितं गलितं चापि घनवृन्दमुदीक्ष्य तत् । चिन्तयामास वैराग्यवानिदं मेदिनीपतिः ॥४११॥ दृष्ट- नष्टमिदं यादृग् घनाघनकदम्बकम् । संसृतौ तादृगेवायुर्विभवादि चलाचलम् ॥४१२॥ उदिते सति भूपस्य वैराग्यमयतेजसि । कोऽहमित्याकलय्येव रविरत्रान्तरेऽसरत् ॥४१३॥ भूपालोऽपि दयितया स साकमृषिदत्तया । विरागितमना धर्मवार्त्ताभिरनयन्निशम् ॥४१४॥ प्रातः कृत्यं च निर्माय यावदास्थानमास्थितः । आरादारामिकेणायं तावदित्यभ्यधीयत ॥ ४१५॥ नाथ ! भद्रयशाः सूरिरुद्याने कुसुमाकरे । आगत्य सपरीवारः शमवान् समवासरत् ॥४१६॥ इत्याकर्ण्य वितीर्यास्मै पारितोषिकमञ्जसा । जगाम सपरीवारो नमस्कर्तुं गुरून् नृपः || ४१७॥ प्रणम्याग्रे निविष्टेऽस्मिन् गुरुर्गभीरया गिरा । चकार भवनिस्तारदायिनीं देशनामथ ॥ ४१८॥ विधाय देशनां ज्ञान - गुरौ तत्र गुरौ तदा । विरते सत्यदोऽवादीदृषिदत्ता कृताञ्जलिः ॥ ४१९॥
निर्मितं कर्म भगवन् ! किं मया पूर्वजन्मनि । राक्षसीति ममालीकः कलङ्को यदजायत ? ॥ ४२०॥ १. भी वि० ।
D:\amarata.pm5\3rd proof