________________
[२६३
ऋषिदत्ताचरित्रम् ॥]
ऋषिदत्ता विहस्याह मा विषीदावधारय । देवाखर्वमिदं सर्वमोषधीललितं मम ॥३९५।। किञ्च मे वरमायच्छ यस्त्वयास्ति प्रतिश्रुतः । प्रसीद पश्य दयित ! रुक्मिणीमपि मामिव ॥३९६।। दध्याविति कुमारोऽपि श्रुत्वा तद्भारतीमहो । विरोधिन्यामपि मनोवृत्तिरस्याः कृपावती ॥३९७।। विचिन्त्येति हृदा भूमीपतिसूनुस्तदा मुदा । उवाच दयितामेवमस्तु देवि ! विवेकिनि ! ॥३९८।। इति भर्तुर्वचः प्राप्य रुक्मिणीमतिगौरवात् ।
ऋषिदत्तात्मनाऽऽहूय लज्जाभङ्गमसूत्रयत् ॥३९९।। $$ अथापृच्छय कुमारोऽपि कावेरीपतिमन्दिरात् ।
दयिताभ्यां युतस्ताभ्यामाजगाम निजं पुरम् ॥४००। अभ्याजगाम तनयमथो हेमरथो नपः । कुर्वन् करिमदैर्दत्तच्छटामिव वसुन्धराम् ॥४०१।। तुङ्गत्तुरङ्गतुण्डागपातिभिः फेनबिन्दुभिः । तदा रराज परितः सपुष्पप्रकरेव भूः ॥४०२॥ विलोक्य तातमायान्तमुत्तीर्णोऽथ रथादसौ । कुमारः सारविनयो ननाम लुठदङ्गकैः ॥४०३।। पादानतं तमुत्थाप्य परिरभ्य च वक्षसा । चुचुम्ब शिरसि क्षोणीपतिः प्रीतितरङ्गितः ॥४०४।। पुरं पुरपुरन्ध्रीहक्क्लुप्तवन्दनमालिकम् । नृपः प्रावेशयदथो वधूयुगयुतं सुतम् ॥४०५।। ऋषिदत्तां सतीचक्रचूडामणिममानयत् । ज्ञातोदन्तः क्षितेरिन्दुरपि स्वागसि लज्जितः ॥४०६।। क्रमात् कृत्वैष कनकरथसादखिलामिलाम् ।
भद्राचार्यपदोपान्ते व्रतमादाय निर्वृतः ॥४०७।। १. 'माद' वि० । २. रङ्ग वि० ।
D:\amarata.pm5|3rd proof