________________
२६२]
[ऋषिदत्ताचरित्रसंग्रहः ॥ कुमारोऽपि बहोः कालाद् दृष्टनष्टापदस्तथा । पपौ यथानन्दबाष्पैस्तल्लावण्यमिवाचमत् ॥३८२।। ऋषिदत्तापि नीरङ्गीदलोत्सङ्गीकृतानना । आलुलोके दृशा लज्जास्पृशा पत्युः पदाङ्गुलीः ॥३८३।। जीवन्तीमात्मजामातुराविर्भूय पुरः स्थिताम् । तामालोक्य नृपोऽप्यन्तःप्रमोदवशगोऽभवत् ॥३८४।। निनाय च निजं सौधमसौ धन्यतमां नृपः । कुमारसहितामेतां समारोप्य करीश्वरम् ॥३८५।। गौरवात् तामथ स्नानवासोऽलङ्करणादिभिः । सच्चकार निजापत्यनिर्विशेषं विशेषवित् ॥३८६।। सुलसां तु महीपालः पापिनी तामपापधीः । भ्रामयित्वा पुरे पौनिन्द्यमानामनारतम् ॥३८७।। रासभारोपितां मुष्टियष्ट्यादिपरिताडिताम् । पुरतः परितो वाद्यमानकाहलडिण्डिमाम् ॥३८८।। विलूनकर्णयुगलनासिकां निरवासयत् । अवध्या हि सतामेते, नारी-गो-द्विज-लिङ्गिनः ॥३८९॥ त्रिभिर्विशेषकम् ॥ नन्द(न्दि)नी स्वामपि महीपती रहसि रंहसा । निरभर्सयदत्यन्तरूक्षाक्षरकिरा गिरा ॥३९०।। कुमारोऽपि कियत्कालं सहैव ऋषिदत्तया । तस्थौ विषयवांस्तत्र श्वशुरेण प्रमोदितः ॥३९१।। $ अन्यदा च प्रियामूचे तामुत्सङ्गनिषेदुषीम् ।
कुमारः स्फारशोकाश्रुजलाविलविलोचनः ॥३९२।। प्रिये ! सर्वमिदं भव्यमभूद् मित्रं परं मम । कष्टमास्ते विधेः पार्वे त्वत्पदे प्रहितो मुनिः ॥३९३।। परार्थकर्मठेनाद्य मठेन गुणसम्पदाम् । मित्रेण रहिता जज्ञे भूरियं मे तमोमयी ॥३९४।।
20
D:\amarata.pm5!3rd proof