________________
ऋषिदत्ताचरित्रम् ॥]
[२६१ जगाद मुनिरप्यस्तु त्वदात्मा निकटे तव । यच्च दानं यदा याचे ददीथास्तत् तदा मम ॥३६९।। उक्त्वा प्रमाणमादेश इति भूपसुतोऽपि तम् । ऊचे किञ्च विलम्बोऽयं लम्बो मामतिबाधते ॥३७०|| कुमार ! ते प्रियामाविष्करोम्येषोऽधुना ननु । इत्युदीर्य मुनिस्तथ्यं नेपथ्यान्तरमाविशत् ॥३७१॥ भविताहो ! मुनेः कर्म समीचीनमिदं यदि । अहमेव कदा धन्यः पुण्यवानिह भूतले ॥३७२।। प्रभविष्णुः प्रभावोऽत्र सतीनां च सतामपि । भूयादिति महीनाथे सनाथे हृदि चिन्तया ॥३७३।। द्रष्टव्याऽद्य मया दिष्ट्या दृष्ट्या संजीवनौषधिः । सा प्रियेत्युत्सुकस्वान्तेऽपि च भूपसुते सति ॥३७४।। परोलक्षेषु निस्पन्दमानलोचनपक्ष्मसु । पश्यत्सु पुरलोकेषु मालिताट्टालपङ्क्तिषु ॥३७५।। यक्षकिन्नरगन्धर्वस्वर्वासिषु नभोऽङ्गणे । स्थितेषु कौतुकात् पाणिधृतमाल्येषु सादरम् ॥३७६।। विहाय सममौषध्या मुनितां मुनिनन्दनी । प्रादुरास पटीमध्यादब्धेरिव रमा ततः ॥३७७।। षड्भिः कुलकम् ॥ पुष्पवृष्टिं व्यधात् तस्याः शिरसि त्रिदशावली । जयेत्याशीर्वच:पूरपूरिताखिलदिङ्मुखा ॥३७८।। उवाच रूपसंपत्तिविजितामरसुन्दरीम् । तामालोक्य तदा लोकः स्मेरविस्मयमानसः ॥३७९॥ चामीकरस्य पुरतो यादृशी किल पितला । तादृशी ऋषिदत्तायाः पुरः स्फुरति रुक्मिणी ॥३८०।। स्थाने तदस्य भूपालसूनोराग्रहसद्ग्रहः । को नाम म्रियते नास्याः कृतेऽतिमधुराकृतेः ? ॥३८१।।
D:\amarata.pm513rd proof