________________
10
२६०]
[ऋषिदत्ताचरित्रसंग्रहः ॥ प्रतिश्रुतमहो ! यन्मा भवताऽऽनयता वनात् । धन्यमण्डलमूर्धन्य ! विस्मृतं तत् कथं तव ? ॥३५६।। किञ्चतद्वल्लभासङ्गकाम्यया मा मृथा वृथा । देहिनां गतयो भिन्नाः परलोकजुषां यतः ॥३५७॥ मृतस्य वल्लभासङ्गवार्तापि तव दुर्लभा । जीवतः पुनरागत्य सा कुतोऽपि मिलिष्यति ॥३५८।। कुमारोऽपीत्यभाषिष्ट विप्लावयसि मां मुने ! । संघटन्तेऽसवः क्वापि जीवतां मृतिमीयुषः ? ।।३५९।। जगाद मुनिरप्येनं मा विषीद महामते ! । अमुना तव सत्त्वेन जीविष्यति मृतापि सा ॥३६०॥ सप्रत्याशमथ क्ष्मापसूनुर्मुनिमभाषत । प्रभो ! मां पुनरप्येतदेव श्रावय सत्वरम् ॥३६१॥ प्रत्यक्षं भवता क्वापि दृष्टा सा किमथ श्रुता ? । अथ जानासि जीवन्ती ज्ञानेन क्वापि तस्थुषीम् ? ॥३६२।। सावष्टम्भमदम्भस्त्वं यदेवं देव ! जल्पसि । यतः प्रकटयन्त्येव वाचोऽभिप्रायमान्तरम् ॥३६३।। मुनिर्जगाद जानामि ज्ञानेन तव वल्लभा । दक्षिणाशापतेरस्ति पुरे पश्यसि मां यथा ॥३६४॥ प्रस्थापयामि तदहं तत्पदे सविधे विधेः । स्थित्वा तां, 'सुहृदः कार्ये तदल्पं यद् विधीयते' ॥३६५।। अब्रवीदथ सौत्सुक्यप्रमोदं भूपनन्दनः । यद्यप्येतद् मुने ! तत्र विलम्बो युज्यते न ते ॥३६६।। मुनिर्बभाषे किं ध्यानक्षणो दक्षिणया विना । सिध्यति मापतनय ! सातमेव पतेन्मुधा ॥३६७।। उवाच भूपसूस्तुभ्यमग्रेऽपि हि मुने ! मनः ।
अर्पितं साम्प्रतं सोऽयमात्मापि मम तावकः ॥३६८॥ १. शीतमेव वि० मु०।
15
25
D:\amarata.pm5|3rd proof