________________
[२५९
ऋषिदत्ताचरित्रम् ॥]
इति श्रुत्वा कुमारोऽथ भृकुटीभङ्गभीषणः । रुक्मिणीमपनीयाङ्कादतुच्छं निरभर्स्यत् ॥३४३।। अरे पापीयसि ! क्रूरे ! भवती तन्वतीदृशम् । आत्मानं नरकक्रोडे मां च दुःखावटेऽक्षिपत् ॥३४४।। हहा गुणवती रूपवती याऽसीद् महासती । कथाशेषीकृता सापि धिक् त्वामशुभकारिणीम् ॥३४५।। केवलं सूत्रयन्त्यात्महितं किं विहितं त्वया । लोकद्वयविरुद्धं हा पापकारिणि ! वैरिणि ! ॥३४६।। इति निर्भर्त्सयतस्तस्य नवोढां व्यूढदीधितिः । निशानाशात पतिर्भासामाविरासाऽम्भसां निधेः ॥३४७|| निशापतिरपि प्राप्तनिशाविरहविह्वलः । झम्पापातमिवाधातुं ययावपरवारिधौ ॥३४८।। अथ भूपसुतः कान्तादुःखतान्ताशयश्चिताम् । किङ्करैः कारयामास तत्रैव भवनाङ्गणे ॥३४९।।
अधिरोढुं चितां सोऽग्निनिचितां चलितश्च ताम् । स्वजनैर्वार्यमाणोऽपि सबाष्पं पदयातिभिः ॥३५०॥ कावेरीपतिनाप्येष जवादेत्य निवारितः । कुमार ! त्वादृशां नेद-मबलाकर्म युज्यते ॥३५१॥ राज्ञेत्युक्तोऽप्यसौ यावदाग्रहं न विमुञ्चति । ऋषिदत्तामुनिं तावदवोचन् परितो जनाः ॥३५२॥ भगवन्नेष निःशेषं मन्यते ते सितासितम् । अतः कृताग्रहं संप्रत्येनं मृत्योनिवर्तय ॥३५३।। अभ्यर्थितो जनैः सोऽथ निद्भुतामन्दसंमदः । ऋषिदत्तामुनिः प्राह विहस्य नृपनन्दनम् ॥३५४।। कुमार ! महिलामात्रकृते किं म्रियते वद ।
त्वादृशा वसुमत्या हि पतयः सेयमज्ञता ॥३५५।। १. भर्ल्स L. | २. म्भसो L. I
D:\amarata.pm5\3rd proof