SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २८] [ऋषिदत्ताचरित्रसंग्रहः ॥ $$ अथ प्रयाणमकरोत् प्रभाते भूपतेः सुतः । पटापटप्लुताश्वीयहेषामुखदिङ्मुखः ॥३३०॥ स संततप्रयाणोऽथ कावेरी नगरीमगात् । समभ्यागाच्च मुदितस्तं नृपः सपरिच्छदः ॥३३१।। प्रावेशयच्च कावेरीमुत्सृतध्वजतोरणम् । कुमारं स नृपः पौरवधूवीक्षितवैभवम् ॥३३२।। विवाहसज्जितं मत्तवारणप्रवणं ततः । सौधमेकमलङ्चक्रे कुमारः कटकोपमम् ॥३३३।। अथ ज्योतिर्विदादिष्टे वासरे वासवोपमः । पर्यणैषीद् नृपसुतां तामृषेर्दुहितुः पतिः ॥३३४॥ कृतपाणिग्रहं पुत्र्याः कुमारं गौरवादमुम् । नृपः कतिपयान्युच्चैरस्थापयदहानि सः ॥३३५।। कण्ठासक्तभुजोत्सङ्गसङ्गिनी नक्तमन्यदा । पति जगाद विश्रम्भप्रणयादिति रुक्मिणी ॥३३६।। प्राणेश ! कीदृशी साऽऽसीद् ऋषिदत्ता तपस्विनी । मनस्ते या वशीचक्रे गौतमीव शचीपतेः ? ॥३३७।। जगाद मेदिनीनाथसूनुः साश्रुविलोचनः । शुभे ! तदुपमा सैव नैव काचिदिहापरा ॥३३८।। रूपलक्ष्मीजुषो यस्याः समस्या कामकामिनी । वणिका मेनका नागयोषितः पदपांशवः ॥३३९।। जाते तद्विरहे दैवादासीस्त्वमपि मे प्रिया । यत् क्षैरेयीं विना घृष्टिरपि प्रीतिकरी न किम् ? ॥३४०॥ ततः सकोपभूपालदुहिता पूर्वकारितम् । निजं पौरुषमाचख्यौ परिणेतुर्बहिर्मुखी ॥३४१।। तदाकार्ण्य तदा दत्तकर्णः सोऽपि मुदं हृदि । ऋषिदत्तामुनिर्दधेस्वकलङ्कापनोदतः ॥३४२॥ १. सकोपा भू वि० L.। 15 25 D:\amarata.pm5|3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy