________________
[२५७
ऋषिदत्ताचरित्रम् ॥]
तदैवाहमपि क्षोणी भ्रामं भ्राममिहागमम् । अमेयगुणनाभेयसेवाहेवाकमुद्वहन् ।।३१७।। अपूर्यत ममात्रैव वसतः पञ्चवत्सरी । पुनस्त्वदर्शनेनाद्य वल्लीवाभूत् फलेग्रहिः ॥३१८।। अब्रवीदथ सानन्दमिलापतिसुतोऽपि तम् । मुने ! त्वां पश्यतो दृष्टिः कथं मे न हि तृप्यति ? ॥३१९॥ तेनापि जगदे देव ! कोऽपि कस्यापि वल्लभः । मोदन्ते कुमुदानीन्दौ कमलानि तु भास्करे ॥३२०।। मुनि विनिहृतास्तोकतोषचिह्नमथावदत् । सोपरोधमिति क्षोणीरमणप्रभवोऽपि तम् ॥३२१॥ अग्रे समस्ति गन्तव्यं मुने ! यामि कथं यतः । त्वत्प्रीतिशृङ्खलाबद्धं मनो मे गन्तुमक्षमम् ॥३२२। तन्मयैव समं तत्र चल चारुमते ! यते ! । वलमानस्त्वहं पश्चाद् , मोक्ष्यामि त्वामिहाश्रमे ॥३२३॥ अथावादीद् मुनिमॆवमाग्रहं त्वं वृथा कृथाः । यतः संयमिनां देव ! दूष्यते राजसंगतिः ॥३२४।। जगदे जगतीशक्रसूनुना मुनिरादरात् । कुर्वते प्रार्थनाभङ्गं त्वादृशा अपि किं प्रभो ! ? ॥३२५॥ अमात्या अपि तं प्राहुः स्वामिचित्तोपलक्षिणः । तथा यथा कुमारेण स मेने गमनं समम् ॥३२६॥ ऋषिदत्तासमा कापि सती क्वाप्यस्ति नास्ति वा । रविर्द्रष्टुमितीवागात् तदा द्वीपान्तरावनौ ॥३२७।। यामिनीकामिनीकर्णकुण्डलं चन्द्रमण्डलम् । नभोऽङ्गणेऽपतत् कीर्णतारामौक्तिकपङ्क्तिकम् ॥३२८।। तौ कुमारमुनी प्रीत्या कृतसान्ध्यविधी ततः । निशामनयतामेकपल्यङ्कतलशायिनौ ॥३२९।।
१. 'कमु वि० L. I किमु P. I
D:\amarata.pm5\3rd proof