________________
२५६]
[ऋषिदत्ताचरित्रसंग्रहः ॥ अस्मिन्नवसरे तस्य दक्षिणं चक्षुरुच्चकैः । पस्पन्द संमदादेवमचिन्तयदसौ ततः ॥३०४।। ममास्फुरदिदं चक्षुः प्रियासंगमसूचकम् । सा तु दैवहता क्वास्ते तदिदं किमु निष्फलम् ? ॥३०५।। अथवेदं ममाग्रेऽपि चैत्यं चिन्तामणीयते । अधुनापि प्रियं किञ्चित् तादृशं तद् भविष्यति ॥३०६।। इति चिन्तयते यावत् कुमारः स्फारविस्मयः । ऋषिदत्तामुनिस्तावदस्मै पुष्पाण्युपानयत् ॥३०७।। कुमारोऽपि करात् तस्य पुष्पमालां समाददे । दृशा पश्यन्नमुं जातप्रियाभ्रमविशालया ॥३०८।। ऋषिदत्तामुनिः सोऽपि हृदीदं समचिन्तयत् । रुक्मिणी परिणेतुं किं प्रस्थितोऽयं मम प्रियः ? ॥३०९।। कुमारोऽपि जिनं नत्वा तमाहूय च सादरम् । आत्मगुप्यद् गुरुं निन्ये तद्वियोगासह: सुधीः ॥३१०।। अग्रासनोपविष्टं तं भोजयामास चाञ्जसा । पर्यधापयदत्यर्थमभ्यर्थ्य वसनानि च ॥३११।। ततोऽपृच्छदिदं मानी समानीय करद्वयीम् । कुमारस्तं समासन्नासनासीनं विनीतवाक् ॥३१२।। मदीयनयनाम्भोजभास्करप्रतिम ! प्रभो ! । निवेदय वनेऽमुष्मिन् कदाऽऽयासी: कुतस्तथा ? ॥३१३।। अथोवाच मुनिः काशसंकाशदशनत्विषा । अयं विद्योतयन्नुच्चैः समाजपदमण्डपम् ॥३१४।। आसीदत्राश्रमे देव ! हरिषेणमुनिः पुरा । ऋषिदत्तेति तस्याभूत् तनया विनयावनिः ॥३१५।। कुमारः कोऽपि तां निन्ये परिणीय निजं पुरम् ।
मुनिरप्यगमद् वह्निप्रवेशात् त्रिदशात्मताम् ॥३१६।। १. पट’ वि०।
15
25
D: amarata.pm5|3rd proof