________________
[२५५
ऋषिदत्ताचरित्रम् ॥]
परिणेतुं सुतामस्मत्प्रभोरात्मतनूभवम् । तत् त्वं विसृज राजेन्दो ! सज्जनं माऽवजीगणः ॥२९१।। किमन्यदेकतो रङ्कमपि राजानमन्यतः । वचसापि विवेकज्ञा जातु न ह्यवजानते ॥२९२॥ दूतवाणीमिति क्षोणीपतिः श्रुत्वा निजाङ्गजम् । दुःखिनं रहसि क्रोडीकृत्य कृत्यविदब्रवीत् ॥२९३।। किमेवं नित्यशोऽतुच्छ वत्स ! चेतसि ताम्यसि । किं त्वयाऽश्रावि नैवं यत् कृतं कर्म न दूषयेत् ॥२९४॥ तत् त्वं मदुपरोधेन कावेरीनगरीशितुः । परिणेतं दहितरं वत्स ! सञ्चर सत्वरम् ॥२९५॥ अनिच्छन्नपि स मापवाचमेताममन्यत । रुद्रस्नात्रमिवालङ्घ्यं भाषितं हि पितुः सताम् ॥२९६॥ $ अथो चचाल गणको-पदिष्टेऽहनि रुक्मिणीम् । परिणेतुमसौ सैन्यधूलिधूसरिताम्बरः ॥२९७।। वाहिनी वाहिनीवास्य वाहकल्लोलमालिनी । ऋषिदत्तावनाम्भोधौ प्रविश्य स्थितिमादधे ॥२९८।। वनमालोक्य तद् दृष्टचरं चारुगुणैकभूः । कुमारश्चिन्तयामास बाष्पक्लिन्नविलोचनः ।।२९९॥ वनं हन्त ! तदेवेदं तदा पूर्णमनोरथः । पर्यणैषमहं यत्र तामहो चारुलोचनाम् ॥३००॥ त एव तरवः सर्वे तदेव हि सरोवरम् । सैव भूमिस्तदेवेदं पुरतो जिनमन्दिरम् ॥३०१॥ ममाजायत दुःखाय सुखाय यदभूत् पुरा । निरागस्यपि निर्बुद्धे ! हा विधे ! किं कृतं मयि ? ॥३०२।। चिन्तयन्नित्ययं शोकशङ्कसङ्कलमानसः ।
जगाम कतिभिः साकं पत्तिभिजिनमन्दिरम् ॥३०३॥ १. सत्वरं वत्स ! संचर वि० । २. तार वि० ।
D:\amarata.pm5|3rd proof