SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २५४] [ऋषिदत्ताचरित्रसंग्रहः ॥ अद्राक्षमद्य जीवन्तमेव त्वां तात ! यद्यहम् । दुःखमप्युत्सवीयेत तदा वै व्यसनं मम ॥२७८॥ अथ ग्रहिलतामेतां जल्पामि कियतीमहम् । यादृगेवोप्यते पूर्वं तादृगेव हि लूयते ॥२७९॥ इति शोकं कृशीकृत्य जनकोटजवासिनी । कन्दमूलफलाहारा तस्थावेकाकिनी वने ॥२८०॥ हस्तन्यस्तमुखी दु:खं तस्थुषी सुमुखी हृदि । दध्यावित्यन्यदा चित्रलेपकाष्ठमयीव सा ॥२८१।। प्रायः संपाकमधुरा कर्कन्धूरिव यद् वधूः । श्रद्धावती कथं तन्मे भविता शीलशीलनम् ॥२८२।। हुं स्मृतं जनकेनास्ति पुरा संदर्शितौषधी । एका यस्याः प्रभावद्धिवशान्नारी नरायते ॥२८३।। इति निश्चित्य तामेषा वनं वीक्ष्य समाहृताम् । कर्णे पवित्रिकीकृत्य पितृशिक्षामिवाकरोत् ॥२८४।। तस्याः प्रभावतः पुंस्त्वमकुतोभयमाप्य सा । मुनिवेषा सुखेनास्थादर्चयन्ती जिनेश्वरम् ॥२८५।। $$ इतश्च वल्लभोऽमुष्या रोहद्विरहविह्वलः । तस्थौ राज्येऽपि विक्रीतावशिष्ट इव शून्यहृत् ॥२८६।। सुलसापि निजोदग्रप्रवृत्त्या जितकाशिनी । गत्वा संमदयामास कावेरीपतिनन्दिनीम् ॥२८७।। शिक्षयित्वा तु काबेरीपतिरप्यतिमानवान् । प्रास्थापयत् तदा दूतमथो हेमरथं प्रति ॥२८८।। सोऽपि गत्वा ततो दूतः पुरुहूतमिव श्रिया । रथमर्दनभूपालमभ्यधादिति पर्षदि ॥२८९।। भवन्तं देव ! कावेरीपतिः प्रच्छयतीदृशम् । अयं नाऽऽयातवानत्र कुमारः किमु कारणम् ? ॥२९०।। १. शुद्धा वनीपकं वि०। 15 D:\amarata.pm5\3rd proof
SR No.009695
Book TitleRushidatta Charitra Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy