________________
ऋषिदत्ताचरित्रम् ॥]
[२५१ कुमारोऽपि नृपादेशमासाद्य विमलाशयः । स्वं जगाम ततो धाम क्षामः श्याममुखच्छविः ॥२३९।। वामहस्ततलन्यस्तकपोलां रुदतीं प्रियाम् । दृष्ट्वाऽवादीदयं प्रेम्णा सदयं हृदयं दधत् ॥२४०।। सुवाणि ! किमिदं पाणितले मुखमचीकरः । यदूमिकाभिरेताभिः कपोलः परिपीड्यते ॥२४१।। अजस्रमश्रुधाराभिः कुरुषे किमु वर्षणम् ? । एतच्चि(ने)त्राम्बु मे हर्षकर्षणस्यातिमर्षणे ! ॥२४२।। किं कुर्मः कर्मवशगे ! सुभगे ! ह्यस्तनेऽहनि । राक्षसीति नृपस्याग्रे योगिनी त्वां न्यवेदयत् ॥२४३।। ईदृशीं प्रातरप्यद्य नृपतिश्चरपूरुषैः । त्वामज्ञासीन्न जानीमोऽधुना तद् यद् भविष्यति ॥२४४॥ अत्रान्तरं नृपः केशैराकृष्याकृशमत्सरः । अर्पयामास तां दण्डपाशिकानां विलापिनीम् ॥२४५।। आदिदेश च तामेवमिमां पापीयसी पुरे । भ्रामयित्वा श्मशानान्तर्नीत्वा मारयिता चिरात् ॥२४६।। कुमारोऽपि गलद्वाष्पबिन्दुः स्वाङ्गं विघातयन् । निषिद्धस्तत्क्षणाद् बद्ध्वा स्वयमेव महीभुजा ॥२४७।। अथ सप्तशिखाबद्धश्रीफलां विफलाशिषम् । निम्बपत्रस्रगाक्रान्तकण्ठां कुण्ठितमङ्गलाम् ॥२४८।। उद्दण्डदण्डविधृतच्छित्वरातपवारणाम् । जीर्णसंमार्जनीखण्डशेखरां खरसादिनीम् ॥२४९।। पुर:संचारिविरसत्काहलाशृङ्गडिण्डिमाम् । मिलितप्राकृतास्तोकलोकपातितबुम्बिकाम् ॥२५०।। चूर्णचित्रितनि:शेषतर्नु तनुमुखीमिमाम् ।
पुरान्तर्धमयामासुः पुरतो दण्डपाशिकाः ॥२५१॥ चतुर्भिः कलापकम् ॥ १. विधृ’ वि० L. । विभृ' P. । २. "डक्कारि ।
D:\amarata.pm5|3rd proof