________________
२५०]
[ऋषिदत्ताचरित्रसंग्रहः ॥ प्रातः पाखण्डिनः सर्वान् नृपो निर्वासयिष्यति । तत् तस्य भवती गत्वा शुद्धिमेतां निवेदयेत् ॥२२६।। यदसौ ते कुमारस्य वधूर्वनसमाहृता । नियतं राक्षसी, तस्या एव चेष्टितमीदृशम् ॥२२७।। पाखण्डिनः पराभूय मैतत् सत्यापय प्रभो ! । यदिशून् खादति क्रोडः कुट्यते सैरिभाननम् ॥२२८॥ मदीये वचसि क्षोणी-पाल ! चेत् तव संशयः । इदं तत् कौतुकं रात्रावद्यैव परिभावयेः ॥२२९।। ओमित्युक्त्वाऽवनीशोऽपि विसृज्यैतामथो निशि । कुमारं स्वान्तिके स्वाङ्गपीडादम्भादशाययत् ॥२३०॥ कुमारश्चिन्तयामास जाग्रन्नुग्रतरारतिः । अद्य मे दयितादोषः प्रकटो हा ! भविष्यति ॥२३१।। एकत: पितुरादेश-लङ्घनं युज्यते न मे । अन्यतो दयितादुःखम् ‘इतो व्याघ्र इतस्तटी' ॥२३२।। इतश्च सापि सुलसा तदेव निशि निर्ममे । चरैर्निभालयामास भूमानपि वधूं प्रगे ॥२३३।। अथाचख्युर्महीशाय यथा दृष्टचरं चराः । ततो निर्भर्त्सयामास नृपोऽपि कुपितः सुतम् ॥२३४॥ अरे जानन्नपि क्रूरां राक्षसीचरितामिमाम् । कुलाङ्गार ! दुराचार ! पाप ! पालयसे कथम् ? ॥२३५॥ याहि याहि दृशोरग्रं त्यज मे राक्षसीपते ! । त्वया कलङ्कितमिदं शशाङ्कधवलं कुलम् ॥२३६।। नृपं विज्ञपयामास कुमारोऽपि कृताञ्जलिः । देव ! सर्वमिदं मिथ्या प्रसीद मयि मा कुपः ॥२३७।। अथाब्रवीन्नृपः कोपाटोपसंटङ्कितध्वनिः ।
अरे प्रत्येषि नास्मासु स्वयं गत्वा निभालय ॥२३८।। १. आमित्यु वि०।
D:\amarata.pm5|3rd proof