________________
[२४९
ऋषिदत्ताचरित्रम् ॥]
पुरापि यद्यहं देव ! भवेयं मांसभोजनी । आर्यपुत्रं कथं कुर्यां तदा मांसनिषेधनम् ? ॥२१३।। एतत् किमपि नो वेद्मि पादाः क्रुध्यन्तु ते मयि । मम कर्मेरितेनोच्चैः केनचिद् वैरिणा कृतम् ॥२१४॥ तवाप्रतीतिर्यदि वा काचित् तन्निगृहाण माम् ।। इष्टोऽपि त्यज्यते दुष्टः शटदङ्गप्रदेशवत् ॥२१५॥ कुमारस्तद्वचः श्रुत्वा विवेकी तामदोऽवदत् । निर्दोषाऽसि प्रिये ! चित्तं मा कृथाः खेदविह्वलम् ॥२१६।। वदन्निति तिरोधाय मांसं मांसलसौहृदः । पयसा क्षालयामासात्मनैवास्या मुखाम्बुजम् ॥२१७।। एवं कलङ्कसंयोगं योगिनी सापि नित्यशः । तस्याश्चक्रे कुमारस्तु सारस्नेहस्तिरोहयत् ॥२१८॥ $$ भूयो भूयः परिज्ञातवृत्तान्तोऽथ महीपतिः ।
अमात्यानित्यभाषिष्ट कोपाटोपारुणेक्षणः ॥२१९।। रे रे मम पुरे नित्यमेकैको मार्यते जनः । यूयं किमु न जानीथ यदेवं स्थ निराकुलाः ? ॥२२०॥ तेऽप्यूचुर्मानवी नैव देव ! मारिः पुरे तव । किमु कुर्मो वयं तत्र मान्त्रिकी दैवती यदि ? ॥२२१।। उत निर्वास्यतामेते देव ! पाखण्डिनः पुरात् । तथापि यदि नो शान्तिस्तदाऽन्यदवधार्यते ॥२२२।। पुरात् पाखण्डिनः सर्वान् मन्त्रिभिः प्रेरितस्ततः । मुक्त्वा जिनमुनीन् मानी नृपतिर्निरवासयत् ॥२२३।। आगत्य सुलसा काल-विदुषी पापसंमुखी । नृपमत्रान्तरे क्रूरा रहसीदं व्यजिज्ञपत् ॥२२४।। मयाऽद्य ददृशे देव ! निशि स्वप्नोऽयमीदृशः । दैवतं किञ्चिदागत्य जाने मामिदमब्रवीत् ।।२२५।।
D:\amarata.pm5\3rd proof