________________
२४]
[ऋषिदत्ताचरित्रसंग्रहः ॥ अथ सा मुखमेतस्याश्चक्रे शोणितशोणितम् । यतो दुरात्मनां क्वास्ते कृत्याकृत्यविवेकिता ? ॥२०१॥ उपधानपदे किञ्च पललं न्यस्य पापिनी । हृत्वावस्वापिनीं चापि चतुःशालात् पलायिता ॥२०२।। मारितं प्रातरालोक्य जनं परिजनस्ततः । चक्रे कलकलं तेन कुमारः प्रत्यबुध्यत ॥२०३।। ज्ञातोदन्तः प्रियां वीक्ष्य रुधिरारुणिताननाम् । उपधानोपरिन्यस्तपललमित्यशङ्कत ॥२०४।। मारितः श्रूयते कश्चिदमुत्र पुनरीदृशम् । राक्षसीयं हहा प्राणवल्लभा नु कथं मम ? ॥२०५।। रूपसंपदपापाय यदहो श्रूयते श्रुतौ । हा धातः ! किमिदं तात ! विपरीतमजायत ? ॥२०६।। अनल्पानिति संकल्पान् कल्पयन् निजचेतसि । प्राबोधयत् प्रियां सद्यो देवि ! जागृहि जागृहि ॥२०७।। सुप्तोत्थितामथ क्षामवचाः प्रोवाच वल्लभाम् । पृच्छामि भवतीं किञ्चिद् गोपायसि न तद् यदि ॥२०८।। भूत्वा मुनिसुतापि त्वं प्रिये ! किमसि राक्षसी ? । सापि भीताऽभणद् देव ! किमेवमयि ! जल्पसि ? ॥२०९।। कुमारः प्राह पुरुषः प्रियेऽद्य निशि मारितः । समांसमुपधानं ते सायं च पुनराननम् ॥२१०।। इति वीक्ष्याप्यहो ! साक्षान्न संदेग्धि कथं मनः ? । सलक्ष्मणि विधौ किं न जाघटीति जनोदितम् ? ॥२११॥ इति श्रुत्वा वचः पत्युः स्वमालोक्य च तद्विधम् । सा विस्मयात् त्रपासारं कुमारं प्रत्यभाषत ॥२१२॥
१. पापाया P.L. । २. वाचा वि० ।
D:\amarata.pm5|3rd proof