________________
[२४७
ऋषिदत्ताचरित्रम् ॥]
अखण्डितप्रयाणोऽथ कुमारो रथमर्दनम् । प्रविवेश पुरं पित्रा कारितोत्तुङ्गतोरणम् ॥१८८॥ सवधूकस्ततः पित्रो नाम चरणद्वयीम् । तौ चातिमुमुदाते तद्दर्शनैकसुखोत्सवौ ॥१८९।। पित्राऽभिनन्दितः साकं तदा च ऋषिदत्तया ।
कुमारोऽभुङ्क्त विषयसुखं लक्ष्म्येव केशवः ॥१९०॥ $इतश्चाश्रावि कावेरीभुजा सुन्दरपाणिना । उदन्तो यत्कुमारेण परिणीता मुनेः सुता ॥१९१।। सापि तदुहिता जातयौवनोन्मादसादरा । कुमाराकाङ्क्षिणी दुःस्था रुक्मिणी समजायत ॥१९२।। अथान्यदाऽमिलत् तस्या योगिनी सुलसाऽभिधा । समस्तमन्त्रतन्त्रादिवेदिनी पापमेदिनी ॥१९३॥ सदैवोपकृतामेतां भोजनाच्छादनादिभिः । ऋषिदत्ताकलङ्काय कुमारागतिहेतवे ॥१९४।। रुक्मिणी प्राहिणोद् दुष्टचेतोवृत्तिमिवाङ्गिनीम् । सापि प्राप पुरं लक्ष्मीसदनं रथमर्दनम् ॥१९५।। युग्मम् ॥ कुमारदयिताभाग्यमिव पूषाऽस्तमासदत् । तदाऽगण्यमिवापुण्यं प्रससारतमां तमः ॥१९६।। उदियाय ततः शीलव्रतनिर्मलदीधितिः । जगल्लक्ष्मीवतंसस्य शशिनो बिम्बमम्बरे ॥१९७।। दत्त्वावस्वापनीं तत्र जनमेकं निहत्य च । सा कुमारचतुःशालं सुलसाऽनलसा ययौ ॥१९८॥ ऋषिदत्तां कुमारान्ते निरीक्ष्य सुखशायिनीम् । धुन्वती मौलिमश्रान्तं चेतसीदमचिन्तयत् ॥१९९।। अहो रूपमहो दीप्तिरेतस्या मृगचक्षुषः । अयं च पुण्यवान् यस्य दयितेयमजायत ॥२००।।
D:\amarata.pm513rd proof