________________
२४६]
[ऋषिदत्ताचरित्रसंग्रहः ॥ सपत्नीष्वपि मा कोपी: कोपयन्तीष्वपि द्रुतम् । विधुः संतप्यते क्वापि दूयमानोऽपि राहुणा ? ॥१७॥ मा भूः सुखे च दुःखे च वत्से ! धर्मपराङ्मुखी। धर्म एव हि जन्तूनां पिता माता सुहृत् प्रभुः ॥१७७॥ आपृच्छ्याथ महीनाथसुतं स्वामपि नन्द(न्दि)नीम् । विवेशाग्नौ मुनिः पञ्चपरमेष्ठिपरायणः ॥१७८॥ विलुठ्य जगतीपीठे चितानिकटवर्तिनि । रुदती ऋषिदत्तापि विलापानकरोदिति ॥१७९॥ हा तात तात ! निःसीमापत्यवात्सल्यतत्पर ! । अद्याहं त्वदृते शोच्या गतमूलेव कन्दली ॥१८०॥ दृष्टापि न मया माता तात ! मातापि मे भवान् । तदुभावप्यजायेतां भुवि हतौ गते त्वयि ॥१८१॥ रुदतीमिति भूपालसुतस्तां दयितामथ । प्राबोधयन्निवेश्याङ्क-मनचरितामिति ।।१८२।। तिष्ठ तिष्ठ प्रिये ! माऽश्रुपातमत्यन्तमातनु । किं वलन्ते कृते दु:खे परलोकपथं गताः ? ॥१८३॥ अयं हि ते पिता कामं कृतराज्यः कृतव्रतः । न शोच्यः किमु वा शोच्यः प्रिये ! पूषाऽस्तमीयिवान् ? ॥१८४।। इत्थं संबोध्य तां तस्य कृतशेषौर्ध्वदेहिकः । कुमार: कारयामास श्मशाने स्थण्डिलं मुनेः ॥१८५।। अथ कन्यामवज्ञाय यदर्थं चलितः पुरा । प्रतस्थे स तया सार्धं कुमार: स्वपुरं प्रति ॥१८६।। पत्या समं समायान्ती पित्रा दत्तवरामसौ । अवपत् पथि सर्वर्तुफलवृक्षफलावलीम् ॥१८७।।
15
१. हतौ भुवि मृते त्वयि वि० । २. दत्तां परामसौ वि० ।
D:\amarata.pm5|3rd proof