________________
[२४५
ऋषिदत्ताचरित्रम् ॥]
कुमारः कुमुदाक्षी तामथो दाक्षीमिवेश्वरः । निरपायमुपायंस्त महेनातिमहीयसा ॥१६४॥ तत्रैव वसतस्तस्य तया सह नवोढया । अजायन्त कियन्तोऽपि वासराः सुखभासुराः ॥१६५।। तमन्यदा प्रमोदाश्रुपूरपूरितलोचनः । कुमारमब्रवीदेवं मुनिर्गद्गदया गिरा ॥१६६।। कुमार ! जगदाधार ! प्रतिपन्नैकवत्सल ! । किं बहु ब्रूमहे मैनामपमानपदं कृथाः ॥१६७।। इयं हि काननावासकृशकौशल्यवैभवा । न्यासीकृता मया वत्स ! राशीभूतगुणे त्वयि ॥१६८॥ त्वत्संगमाद् गुणागारमसावपि भविष्यति । मृगनाभौ गता धूलिरप्यहो सुरभीभवेत् ॥१६९॥ किञ्चान्यदहमिच्छामि प्रवेष्टुं वत्स ! पावके । जीविताद् मरणं श्रेयो मादृशां जरतां यतः ॥१७०॥ निपत्य पादयोः प्राह कुमारोऽपि मुनीश्वरम् ।। अलं प्राणपरित्यागवार्तयापि प्रसीद नः ॥१७१।। रुदती ऋषिदत्तापि समानीय करद्वयीम् । भक्तिनम्रशिराः प्रोचे पितरं नितरामिति ॥१७२।। यदयं तात ! जामाता भवतां बत जल्पति । तद् यूयं प्रतिपद्यध्वं विधाय करुणां मयि ॥१७३।। सुप्रसन्नः सुतामेवमुवाच मुनिरप्यथ । शोकेनालमलं वत्से ! तुच्छेयं तव शेमुषी ॥१७४।। परं शिक्षावचोऽस्माकमिदं क्वचन मा मुचः । शुश्रूषेथा गुरून् शीलं पालयेथाः पतिव्रते ! ॥१७५॥
20
१. स्वराः वि०।
D:\amarata.pm5|3rd proof