________________
२४४]
[ऋषिदत्ताचरित्रसंग्रहः ॥ मम रूपवतीं पुत्रीमिमां दृष्ट्वा वनेचराः । हरिष्यन्तीति संचिन्त्य तदर्थं जनकोऽञ्जनम् ॥१५१॥ चकारादृश्यताहेतोर्विश्वभूतिनिवेदितम् । वनेऽस्मिस्तेन सा जज्ञे पुलिन्दानामगोचरा ॥१५२॥ युग्मम् ।। कुमार ! सुभगाकार ! सोऽहं सेयं च कन्यका । अलक्ष्या काननेऽमुष्मिस्तवैवादत्त दर्शनम् ॥१५३।। कुमारस्तामृषिसुतां स्नेहमांसलया दृशा । तथाऽपश्यत् कुमारं सा यथात्मान्योन्यमर्पितः ॥१५४।। मुनिरप्येतयोर्भावं विभाव्य निजचेतसि । उवाच मुदितः स्मित्वा कुमारं सुकुमारगीः ॥१५५॥ कुमारातिथये तुभ्यमातिथ्यमियमङ्गजा । अस्तु मे भरतायेव चक्रिणे विनमेः सुता ॥१५६।। ऋषिदत्ता तु पितरि वदतीदमधोमुखी । तदक्षवलयग्रन्थीन् गणयामास लज्जया ॥१५७।। कुमारस्तु समानीय पाणी वाणीमिमां जगौ । यदाऽऽदिशन्ति पूज्यास्तत् प्रतिपन्नं मया खलु ॥१५८।। अत्रान्तरेऽवदद् बन्दी देव ! तुभ्यं प्रयच्छतः । मुनेरात्मसुतां कर्मसाक्षी साक्षी भवत्ययम् ॥१५९।। कुमारं मुनिरप्याह विलोक्याभि दिवाकरम् । वत्सोत्तिष्ठ प्रयाहि स्वं शिबिरं कुरु भोजनम् ॥१६०।। कुमारोऽपि मुनिं प्राह प्रणम्य प्राञ्जलिः प्रभो ! । अद्य भोक्ष्यामि युष्माभिः समं चलत तन्मया ॥१६१।। मुनिरप्यभणद् भद्र ! प्रमाणं तव गौरवम् । फलमूलादि मुक्त्वाऽन्यत् कल्पते न तपस्विनाम् ॥१६२।। मुनिनेति विसृष्टस्तां दृशा संभावयन्नयम् । गत्वाऽऽत्मशिबिरे चक्रे भोजनं सपरिच्छदः ॥१६३।।
15
25
D:\amarata.pm5\3rd proof